Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 160
________________ . षष्ठोऽङ्कः। १४७ षष्ठोऽङ्कः ॥६॥ color (ततः प्रविशति प्रतीहारः ।) प्रतीहारः-सुविहितं भोः प्रतिभावता काशीपतिना । येन तैस्तैश्च समुदाचारैः सुसत्कारपुरस्सरैः। न परं मोचितो बंधात् पौरवो दुर्ग्रहादपि ॥१॥ किंच। अनुपमगुणगूर्वी रत्नमालां प्रदाय प्रथमतरममुष्मै सत्कृतिप्रीणिताय । भरतपतिरनेन स्वैरमाराधितोऽभूत् स्वकुलमपि गरिम्णायोजि संबंधसारात् ॥ २॥ अपिच । जयश्रियो वीक्षणविभ्रमांजनं द्विषां च कृष्णीकरणं यशःश्रियः । मदांबु भूयः क्षरतां महीपतिः - सहस्रमस्मै करिणामदान्मुदा ॥ ३॥ किंच। अत्याजितत्वरितयानजितश्रमाणां दत्तानि पंचशतकानि करेणुकानाम् । अष्टौ शतानि कलभाः शुभलक्षणाढ्या श्चत्वारि सत्वरसलीलगताश्च बिक्काः ॥ ४ ॥ अपिच। श्लाघ्यावर्ताः पंचधाराभियुक्ताः सत्त्वोद्रिक्ताः काशिराजेन दत्ताः।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182