Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 164
________________ .. षष्ठोऽङ्कः । १११ हेमांगदः-(विलोक्य ) कमनीयेयं कातरा। प्रतीहारः-इतोपि दृश्यताम् । आमोदलोलुपमसौ भ्रमरं पतंतं व्याधुन्वति प्रियसखी कबरीनिवेशात् । भनेष्वथैनमलकेष्वसमीक्ष्य लीन माकाश एव दृशमाकुलयत्यलक्षाम् ॥ १६ ॥ हेमांगदः-(विलोक्य ) अहो चारुता विभ्रमस्य । प्रतीहारः-इतोपि पश्य । सुनिर्मलस्फाटिकभित्तिलग्नां ... छायां निजां वीक्ष्य सखीति बुध्वा । मुग्धा परिष्वज्य मुदा विलक्ष-. . . स्मितेन सिंचत्यधरोष्ठमेका ॥ १७ ॥ हेमांगदः-(विलोक्य ) सेयं सीमा मौग्धस्य । प्रतीहारः-इदं च विलोक्यताम् । सख्याः कपालफलके मुकुरावदाते संवीक्ष्य कापि निजमाननमायताक्षी। चूर्णालका प्रगुणयत्यपकीर्णचूर्णान् कर्णावतंसकुसुमं च विशेषकं च ॥१८॥ .... (नेपथ्ये, कलकलानंतरं )..... • चैतालिंकौ-विजयतां हास्तिनाधिपतिः । प्रथम: क्षरद्धारापूरक्षपितसुरवीथीपरिरया .. रयापातभ्रश्यद्भरतपृतनानादरभसाः। हुता येनांभोदाः शिखिनि विशिखांतोत्थितशिखे शिखारत्नं पुंसां स जयति जयः कौरवपतिः ॥ १९॥ पाता।

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182