Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 162
________________ षष्टोऽङ्कः। तस्या हि चक्रीकृतं येन जये सुराणां चापं न पृथ्व्याः श्वशुरस्स चक्री। भद्रागुणैः श्लाध्यतमैः सुभद्रा श्वश्रूश्च विद्याधरलोकसारा ॥ ८॥ प्रतीहारः- ( उपसृत्य ) जयतु युवराजः । हेमांगदः-अपि वर्तितमनुष्ठितम् । प्रतीहारः-सर्व यथानियोगमनुष्ठितम् । हेमांगदः-किंच किंच। प्रतीहारः पंचोपचारचतुराः परमेश्वरस्य कुर्वति सर्वजगदभ्युदयाय पूजाम् । सूत्राणि कल्मषहराणि पठंति भूयः संभूय च स्तुतिविशेषविदोऽद्य भव्याः ॥९॥ हेमांगदः-सर्व शुभोद भगवदभ्यर्हणपुरःसरतया । प्रतीहारः-इदं चेदानीम् प्रलंबलंबूषविभूषितांतमुदावितानैरवदातशोभम् । हिरण्मयस्तंभविटंकनद्ध प्रकीर्णकं राजति राजवेश्म ॥ १० ॥ इतश्च समंततः संचरत्पर्युत्सुकपुरजनसंकुलमंकुरयति कौतुकं राजकुलं । अत्र हि सरसबकुलमाला केसराक्लिष्टदष्टेः कुचकलशविलेपैर्घाणमुन्मादयंति।

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182