Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 157
________________ १४४ . विक्रांतकौरवे विदूषकः-( सहर्ष तुंडं परिमृज्य ) केहं कलं एव्व महवि सत्थिवाअणअं भविस्सदि। राजा-भद्रे कान्या गतिः । तथास्तु । (निष्क्रांता सुलोचना नवमालिका च ). राजा-( सविषादं ) अहो असहनता दैवस्य । न वाग्भिः श्राव्याभिः श्रवणयुगमाराधितमिदं न वक्षश्चाश्लेषनिबिडितकुचैः प्रीणितमभूत् । न सौहित्यं वांछाप्यधरमधुपानेन गमिता गता चासौ तूष्णीमहह सहसा हंसगमना ॥७८ ॥ विदूषकः-भो वअस्स कलं एव्व तुह्माणंपि कोदुअबंधो । ता किंति दाणिं अत्ताणं दूमसि । राजा-अहो कातरता हृदयस्य । तथाहि श्व एव नः कौतुकबंध इत्यमुं निशम्य वृत्तांतमिदं तु मे मनः । प्रियावियोगव्यथमानमंतरे दृढं पुनः कौतुकबंधमृच्छति ॥ ७९ ॥ (संतापमभिनीय ) कथं प्रियाविघटनलब्धप्रसरः प्रतनोत्येव यथापुरं रजनीचरतिग्मांशुं निशीथिनीनाथः । अथवा किमत्र दाक्षिण्येन । त्वमसि शिशिररश्मिः सन्निधौ शीतलांग्या यदि तदपगमे त्वं दर्शयेरद्य शैत्यं । अयि शशधर सत्यं दर्शयिष्यामी तीक्ष्णौ . . शिरसि तव शशस्य द्वौ विषाणौ विशंकम् ॥ ८०॥ १. कथं काल्य एव ममापि स्वस्तिवाचनकं भविष्यति । २. भो वयस्य काल्यमेव युवयोरपि कौतुकबंधः । तस्मात् किमिदानी आत्मानं धूमयसि ।

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182