Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 154
________________ पश्चमोऽङ्कः । १४१ नवमालिका-ऐसा उण अहं ण णिवारेमि सो एव्व आअदुअ तुमं णिवारेदु। - राजा-सखे अयमवसरः यावदुपसर्पावः । (उपसर्पतः) नवमालिका-( दृष्ट्वा ) भट्ट एसा खु पिअसही चिराइदं तुम्हेहिति कुविदा णिग्गच्छेदि । ता णिवारीअदु । सुलोचना- ( सलज्जं सहर्ष च ) अम्हो अज्जउत्तो। राजा-सरले कृतं कुपितेन । ( हस्ते गृह्णाति ) (सुलोचना सलजं मोचयितुमिच्छति) विदूषकः-कहं वअस्सेण गहिदं वि हत्थं मोएदुं इच्छसि । इमस्स उण बाहुसारं तुम्हाणं विअ तुए जामातुणो अक्काकत्तिणो हत्था. पुच्छिअंतु। राजा-अयि मुग्धे कुतो हस्तमाक्षिपसि । कृतं वीडितेन । इयं परिम्लानमृणालकोमला तवांगयष्टि शमद्य ताम्यति । तदेव लज्जाव्यसनं विमुंचती ममावलम्बस्व करं नितंबिनि ॥ ७४॥ विदूषकः-लेद्धं मणोरहाणं फलं वअस्सेण अ अत्तहोदीए अमए उण एक्केण एत्तिअंमि भूइडमिटफले वणे एकवि फलं ण लद्धं । १ एषा पुनरहं न निवारयामि स एवागत्य त्वां निवारयतु । २ भर्तः एषा खलु प्रियसखी चिरायितं युष्माभिरिति कुपिता निर्गच्छति । ३ अहो आर्यपुत्रः । ४ कथं वयस्येन गृहीतमपि हस्तं मोचयितुमिच्छसि अस्य पुनर्बाहुसारं युष्माकमिव त्वया जामातुः अर्ककीर्तेः हस्ता पृच्छेताम्. ५ लब्धं मनोरथानां फलं वयस्येन च अत्रभवत्या च मया पुनरेकेन एतावन्मात्रे भूयिष्ठमृष्टफले उपवने एकमपि फलं न लब्धं ।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182