Book Title: Vikrantkauravam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 150
________________ पञ्चमोऽङ्कः । १३७ अलंतणोमालिआवासिददसदिसं । जब्भाअंतपुण्णाअमहुरसतराणाअमारूअं । अविरलदलंतकुमुअवणपच्छदसंछण्णसरोवरं वालुज्जाणं । नंद्यावर्तः -- अहो रमणीयता वालोद्यानस्य । अत्र हि आसवैरनिलमार्द्रयत्यमुं चारु भासुरयतीह केसरः । सौरभेण सुरभीकरोत्यसौ कौमुदीषु सरसीषु कौमुदी ॥ ६८ ॥ राजा -- बकुलतरवः सांद्रप्रोत्सर्पकौसुमसौरभाः किमपि सुरभीकुर्वत्येते भ्रमद्भ्रमरं नभः । अथ च कथयाम्येतैर्नक्तं दिवं प्रविकस्वरैः चिरसुरभिभिर्बाद कालोप्यसौ सुरभीकृतः ॥ ६९ ॥ ( अन्यतो विलोक्य ) इतोपि च । पाटलीजरठकुइमलरंधप्रस्खलद्बहलसौरभलुब्धाः । निर्भरं मधुलिहो लिहतेऽमी धूनिताननममूनि मधूनि ॥ ७० ॥ विदूषकः - भो' वअस्स कुदो एदाइ णिब्भलकुसुमिदाइ पाडलाइ वणाअंते । णिअमूलपलंवपरिपक्खखलिदेहि दीहरबाहुजुअलपरिरंभणिज्जपरिणाहेहि पसरंतसुरभिगंधघुराघुराइदजीहेहिं फलसहस्सेहिं दंसणिज्जो उववणालंकारो तुमे पणसो ण वणिज्जदि । 1 १. भो वयस्य कुतः एतानि निर्भरकुसुमितानि पाटलानि वर्ण्यते । निजमूलप्रलंबपरिपक्षस्खलितैः दीर्घबाहुयुगलपरिरंभणीयपरिणाहैः प्रसरत्सुरभिगंधघुरघुरायितजिह्वैः फलसहस्रैः दर्शनीयः उपवनालंकारः त्वया पनसो न वर्ण्यते ।

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182