Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 191
________________ जिन देशना चुलनी पिताश्रावक चरित्रम् ॥ श्रीवर्द्धमान | स कस्यचिद्वणिजो गृहे संप्राप्तः, तत्र च गुप्तं स्थितो जनकपुत्रयोः परस्परं वार्तालापं शृणोति. पुत्र प्रति श्रेष्ठी वदति 'हे पुत्र! सांप्रतं दशसहस्रदीनाराणि कुत्रापि निधानीकृत्य स्थाप्यंते, येन तानि कस्मिंश्चिदापत्काले सहायरूपाणि स्युः, ॥१८५॥ पुत्रेणोक्तं हे तात ! भवता तत्सुष्टु विचारितं, अथ तानि यदि स्मशानमध्ये स्थाप्यते तदा भव्यं.' तच्छ्रुत्वा स द्यूतकारस्ततो दूतं स्मशानमध्ये गत्वा महायोगीव श्वासोच्छ्वासं संरुध्य मृतकवत्पतितः. इतस्तौ श्रेष्ठिपुत्रावपि धनं गृहीत्वा तत्र समागतो. श्रेष्टिना पुत्राय कथितं ' रे पुत्र ! त्वं स्मशानांतः सर्वत्र सम्यक् पश्य ? यतश्चेदत्र कोऽपि महाधूतॊ गुप्तं स्थितो भविष्यति तास्माकं मनोरथो मूलादेवोच्छिन्नो भविष्यनि.' तच्छृत्वा | स श्रेष्ठिपुत्रः स्मशानमध्ये सर्वत्र भ्रमन् सम्यक् प्रकारेण विलोकयामास. __इतस्तेन स सारणद्यूतकारो मृतकवृंदमध्ये मृतकवत् पतितोऽक्षतशरीरो दृष्टः, तदा श्रेष्टिपुत्रेण तस्य सर्व शरीरं | सम्यग् विलोकितं, मुखनासिकयोरपि श्वासोच्छ्वासरहितो दृष्टः, ततस्तं परावृत्त्यापि दृष्टवान्. अथ तं गतप्राणं दृष्ट्वा स ततो निर्गत्य जनकाय कथयामास, 'हे तात! मया श्मशानमध्ये सर्वत्र विलोकित, सर्वेsप्यत्र विनष्टशरीरा मृतकाः पतिताः संति, तेषां मध्ये च मयैको मृतकोऽक्षतशरीरो दृष्टः, तदा पित्रोक्तं ' हे पुत्र! नूनं स कश्चिन्महाधृत्तॊ भविष्यति, अतः पुनरपि गत्वा तस्य सम्यग् निरूपणं कुरु ?' तदा तेन पुनरपि तत्र गत्वा सम्यग् निरूपितं, पादौ धृत्वा स आकर्षितः, परं तं निश्चेतनं विज्ञाय पितुः पार्थे समागत्य तत्स्वरूपमुक्तवान. तदा पुनरपि पित्रा तस्मै प्रोक्तं 'हे पुत्र ! तर्हि तस्य नासिकां कौँ च छेदयित्वा समानय ? यथा मम निश्चयो भवेत्.' पुत्रोऽपि तत्र गत्वा * 發聯發藍帶柴柴柴柴柴聯盟聯號聯號聯露端端端端端端端端端端樂 繼器端端樂聯號藤器端蹤器端聽器聽幾號號號跳號號號聽聽聽器聽 ॥१८५॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282