Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्द्धमान जिनदेशना
तेतलिपुत्र चरित्रम्।।
॥२७५॥
幾號幾號號號號號柴晓露露號號跳曉曉露蹤继晓聽篮藤藤密榮登藤编
मया सकलोऽपि कुटुंबमारो निर्वाहितः, ___ अथ श्रावकपतिमारुपं धर्ममपि समाराधयामीति ध्यात्वा पौषधशाला प्रमाय॑ दर्भसंस्तारके समुपविश्यानंदवदेकादशप्रतिमाः समाराधयामास. अत्युग्रतपसातीवक्षीणीभूतः संलेषणां कृत्वानशनं प्रत्यपद्यत, ततोऽसौ जीवराशि क्षामयित्वा शुभध्यानं ध्यायन् पंचपरमेष्टिनमस्कारं स्मरन् मृत्वा सौधर्मदेवलोकेऽरुणाभविमाने चतुःपल्योपमायुर्देवो जातः तत् श्रुत्वा | गौतमेन पृष्टं हे भगवन् ततश्च्युत्वा स क्व यास्यति ? भगवानुवाच 'भो गौतम स ततश्च्युत्वा मनुष्यभवं प्राप्य कर्मग्रंथि
च भित्वा मुक्ति थास्यति.' एते दशश्रावकाः श्रीवीरजिनेंद्रशासने कथिताः संति, ते च सुरासुरनरतिर्यकृतोपसगैरक्षुब्धा दृढसम्यक्त्वा विंशतिवर्षाणि यावत्पालितजिनधर्माः सर्वेऽपि प्रथमदेवलोके देवा बभूवुः सर्वेऽपि च ते मनुष्यभवं पाप्य विगतकर्मबंधनाः सेत्स्यति. एतेषां चरित्रं च श्रुत्वा श्रीजंबूस्वामी शमभावभावितात्मा धर्मपरायणो जातः. अस्मिन ग्रंथे यत्किचिद् उत्सूत्रादिदूषणं भवेत् तत्सर्वं मयि कृपापरैगंतमत्सरैः श्रुतधरैः शोधनीय.
श्रीबृहत्खरतरगछे श्रीजिनभद्रसूरेरंतेवासी वाचनाचार्यः श्री पञ्चमेरुगणी, तच्छिष्यो वाचनाचार्यः श्रीमतिवद्धनगणी, तच्छिष्यो वाचनाचार्यः श्रीमरुतिलकगणी, तच्छिष्यो वाचनाचार्यः श्रीदयाकलशगणी, तच्छिष्यो वाचनाचार्यः श्रीअमरमाणिक्यगणी, तच्छिष्यो वाचनाचार्यः श्रीक्षमारंभगणी, तच्छिष्यो वाचनाचार्यः श्रीरत्नलाभगणी, तच्छिष्येण.
राजकीतिगणिनेयं श्रीवर्द्धमानदेशना गद्यबंधेनप्रणिता. ॥ इति श्रीतेतलिपुत्रश्रावकप्रतिबोधो नाम दशम उल्लासः समाप्तः॥ श्रीरस्तु ॥
इतिश्री वर्द्धमानदेशना समाप्ता।
張懿蒸發器器继聪靠聽器器鉴號號號號继號號號號鉴號涨聯發部聯發音
॥२७५॥

Page Navigation
1 ... 279 280 281 282