Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 205
________________ चुलनी श्री वर्द्धमान जिनदेशना ॥१९९॥ पिताश्रावक चरित्रम् ॥ 密密密密佛带带带除染验验器鉴聯發等路路路路染带染染染密第 ऽपि वेषांतरं विधाय तत्रायातः. अथ भगवता देशना दत्ता, यः परजीवं विनाशयति, मृपावादं जल्पति, परधनानि हरति, परकलत्राणि च सेवते, महारंभं च करोति स मृत्वा नूनं महानरके गत्वा तत्र तीव्रवेदनां सहते. तच्छत्वा सहस्रमल्लश्चिन्तयति धिर धिग् एतानि सर्वाणि कर्माणि मया कृतानि, तेन ध्रुवमागामि जन्मनि मम नरकावासो भवि- ध्यति. अथ निश्चयेनैतस्माद्घोरपापादसौ साधुरेख मां तारयिष्यति, अतोऽस्य पादयोरेव शरणं करोमि. अथ ते नगरलोकाः सर्वेऽपि धर्म श्रुत्वा स्वस्वस्थानके गताः, तदा सहस्रमल्लो भवोद्विग्नः सन् केवलिनमेवमवादीत , 'हे भगवन् जगति तत्कुकर्म नास्ति यदद्यावधिपर्यंतं मया न कृतं, अथ सांप्रतं भवतामुपदेशश्रवणेनाहं भवाद्विग्नोऽस्मि. यदि योग्योऽहं तर्हि मे जिनदीक्षां यच्छत ? केवलिनोक्तं 'भो सुंदर! तर्हि त्वं मा प्रतिबंधं कुरु ? योगशुद्धिं विधायास्मानं निर्मलं कुरु ?' सहस्रमल्लेनोक्तं भगवन् राजा ममोपरि कुपितोऽस्ति, ततोऽन्यत्र गत्वा मां दीक्षत ? केवलिनोक्तं 'भद्र ! त्वया न भेतव्यं, प्रभाते च त्वया पुनरत्रागंतव्यं, राज्ञि चात्र समागते सर्व भव्यं भविष्यति.' अथ प्रभाते नृपतिनगरलोकयुतः पुनः केवलिवंदनाथ तत्र समागतः, चौरोऽपि समागत्य केवलिपाचे समुपविष्टः, केवलिना देशना प्रारब्धा, नृपादीनामतीतानागतवर्तमानकालविषयाः संदेहा दरीकृताः. अथ राजा केवलिनमपृच्छत् 'हे भगवन् स तस्करः कुत्रास्ति ?' केवलिनोक्तं 'हे राजन् ! सोऽधुना तव वामपाचे स्थितोऽस्ति, अथाधुनाऽस्योपरि त्वया कोपो न कर्तव्यः, अथैतस्य मनः कुकर्मकरणतो निवर्तितमस्ति, कृतकर्मविनाशार्थ स चारित्रग्रहणस्पृहयालुवर्तते. ततो मोक्षमार्गे प्रस्थितस्यास्य त्वं सान्निध्यं कुरु ? राज्ञोक्तं 'हे भगवन् यथा भवदाज्ञा 柴柴柴柴柴柴柴柴张张陈染染弟弟柴柴柴柴柴亲亲亲亲亲亲弟弟 ॥१९९॥

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282