Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 206
________________ श्रीवर्द्धमान तथाहं विधास्ये.' ततः सहसमल्लो राज्ञा सह निजगृहे समागत्य सर्व धनं निजं निजं लोकेभ्यः समर्पयामास. ततोऽसौ चुलनीपिता जिन देशना | जननीयुतः केवलिनः समीपे समागत्य दीक्षां जग्राह. || श्रावक ॥२०॥ ततस्तेन गुरुभ्यो विज्ञप्तं ' हे भगवन् ! भवदाज्ञा चेत्तर्हि यावज्जीवमहं मासक्षमणाभिग्रहं गृह्णामि. गुरुणापि तं योग्यं चरित्रम् ॥ ज्ञात्वा तथाकरणायाज्ञा दत्ता. एवं स नृपादिभिः प्रशंसितो द्विविधशिक्षां गृहीत्वा जितेंद्रियो जातः, क्रमेण तपस्तष्यमानेन तेन दुर्गतिहेतुकं कर्म क्षयं नीतं. शुमध्यानाग्निना कमैंधनानि भस्मसात्कृत्वा क्रमेणासौ लोकालोकप्रकाशकं केवलज्ञानमुपार्जयामास. सुरकृतकनककमलोपविष्टश्च स दयाप्रधानं जिनधर्मोपदेशं लोकेभ्योऽकथयत , ततः कियत्कालं पृथिव्यां विहृत्य योगनिरोधेन शैलेशीकरणेन स मुक्तिं ययौ. एवं घनघोरकर्मकर्तास सहस्रमल्लोऽपि जिनधर्मादरेण संसारादुद्धतः, तस्माद भो भव्या यूयं भावपूर्वकं जिनधर्म कुरुत ? ॥इति सहस्रमल्लकथा समाप्ता ॥ श्रीरस्तु ।। अथ स चुलनीपितैवं धर्मोपदेशं श्रुत्वानंदतस्तत्सम्यक्त्वसहितं श्राद्धधर्म जग्राह. आत्मानं च कृतार्थ कृतपुण्यं च मन्यमानो जिनं नत्वा स स्वगृहे समागत्य निजभार्यायै कथयामास, 'हे भद्रे । मयाद्यालब्धपूर्वो जिनधर्मो लब्धः, अतस्त्वमपि प्रभुपार्वे गत्वा तं जिनधर्म लभस्व ?' तच्छत्वा प्रमुदिता सापि जिनपार्श्वे गत्वा प्रभुं च नत्वा श्रावकधर्म स्वीकृत्य गृहे समागता. एवं तस्य श्राद्धधर्म पालयतश्चतुर्दश वर्षाणि गतानि, अथैकदा स चुलनीपिता निजहदि चिन्तयति इयत्कालं यावन्मया कुटुंबभारो निर्वाहितः, अथाधुना प्रतिमारूपं *RESER *

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282