________________
श्रीवर्द्धमान तथाहं विधास्ये.' ततः सहसमल्लो राज्ञा सह निजगृहे समागत्य सर्व धनं निजं निजं लोकेभ्यः समर्पयामास. ततोऽसौ चुलनीपिता जिन देशना | जननीयुतः केवलिनः समीपे समागत्य दीक्षां जग्राह.
|| श्रावक ॥२०॥ ततस्तेन गुरुभ्यो विज्ञप्तं ' हे भगवन् ! भवदाज्ञा चेत्तर्हि यावज्जीवमहं मासक्षमणाभिग्रहं गृह्णामि. गुरुणापि तं योग्यं
चरित्रम् ॥ ज्ञात्वा तथाकरणायाज्ञा दत्ता. एवं स नृपादिभिः प्रशंसितो द्विविधशिक्षां गृहीत्वा जितेंद्रियो जातः, क्रमेण तपस्तष्यमानेन तेन दुर्गतिहेतुकं कर्म क्षयं नीतं. शुमध्यानाग्निना कमैंधनानि भस्मसात्कृत्वा क्रमेणासौ लोकालोकप्रकाशकं केवलज्ञानमुपार्जयामास. सुरकृतकनककमलोपविष्टश्च स दयाप्रधानं जिनधर्मोपदेशं लोकेभ्योऽकथयत , ततः कियत्कालं पृथिव्यां विहृत्य योगनिरोधेन शैलेशीकरणेन स मुक्तिं ययौ. एवं घनघोरकर्मकर्तास सहस्रमल्लोऽपि जिनधर्मादरेण संसारादुद्धतः, तस्माद भो भव्या यूयं भावपूर्वकं जिनधर्म कुरुत ?
॥इति सहस्रमल्लकथा समाप्ता ॥ श्रीरस्तु ।। अथ स चुलनीपितैवं धर्मोपदेशं श्रुत्वानंदतस्तत्सम्यक्त्वसहितं श्राद्धधर्म जग्राह. आत्मानं च कृतार्थ कृतपुण्यं च मन्यमानो जिनं नत्वा स स्वगृहे समागत्य निजभार्यायै कथयामास, 'हे भद्रे । मयाद्यालब्धपूर्वो जिनधर्मो लब्धः, अतस्त्वमपि प्रभुपार्वे गत्वा तं जिनधर्म लभस्व ?' तच्छत्वा प्रमुदिता सापि जिनपार्श्वे गत्वा प्रभुं च नत्वा श्रावकधर्म स्वीकृत्य गृहे समागता. एवं तस्य श्राद्धधर्म पालयतश्चतुर्दश वर्षाणि गतानि,
अथैकदा स चुलनीपिता निजहदि चिन्तयति इयत्कालं यावन्मया कुटुंबभारो निर्वाहितः, अथाधुना प्रतिमारूपं
*RESER
*