________________
श्रीवर्द्धमान जिन देशना ॥२०१॥
***********
******
श्रावकधर्म समाराधयामि यतः -
कालक्षेपो न कर्त्तव्य, आयुर्याति दिने दिने । न करोति यमः क्षांतिं, धर्मस्य त्वरिता गतिः ॥ १ ॥ इति विचिन्त्य स पौषधशालायां गत्वा सर्वाः प्रतिमा भावेन वहतिस्म.
अथान्यदैकः सुरः खर्ग करे धृत्वार्द्धरात्रौ तस्याग्रे प्रकटीभूयैवमवादीत् 'रे चुलनीपितश्वेदद्य त्वं श्रावकधर्मं पौषधवतं च न त्यजसि तदाहं तत्र ज्येष्ठपुत्रमत्रानीय तव समीपे मारयित्वा तस्य मांसं शूलामोतं विधायाग्नितप्ततैलकटाहे क्षेप्स्यामि, तस्य रुधिरेण च तत्र शरीरे सेचनं करिष्यामि,' एवं च त्वमार्त्तध्यानादकालमरणेन मृत्वा दुर्गतिं यास्यसि.
एवं द्वित्रिवारं तद्वचनानि श्रुत्वापि निर्भयोऽसौ यावन्निजध्यानान्न चलति तावत्क्रोधातुरः स देवस्तस्य ज्येष्ठपुत्रं तद्गृहादानीय तन्मासं शूलायामारोप्य तप्ततैलकटाहे पाचयामास तद्रुधिरेण च तस्य चुलनीपितुः शरीरमसिश्चत्, तथापि स निजध्यानान्न चलितः, ततोऽसौ देवस्तथैव द्वितीयं तुतीयं चतुर्थं पुत्रं च तस्य तत्र समानीय तथैव कृतवान् तद् दृष्ट्वापि चुलनीपिता तु तथैव प्रत्युताधिकतरं धर्मध्याने तत्परो बभूव तदातीवकुपितेन तेन देवेनोक्तं ' रे दुष्ट ! सांप्रतमपि चेत्रं तव पौषधव्रतं न त्यक्षसि तर्हि तब जननीं भद्रामत्रानीय त्वदग्रे मारयिष्यामि, तस्या अपि मांसं कटाहे क्षिप्त्वा तदुधिरेण तत्र शरीरे सेचनं करिष्यामि, एवं चार्त्तध्यानेन निश्चितं त्वं दुर्गतिं यास्यसि तच्छ्रुत्वा स चुलनीपिता निजमनसि चिन्तयति अरे ! एषः कोऽप्यनार्यो दुष्टो मनुष्यो ज्ञायते येन पापिना मम पुत्रा हतास्तेषां मांसं च पाचितं, तद्रुधिरेण चाहं सिक्तः.
चुलनीपिताश्रावक चरित्रम् ॥
॥२०१॥