________________
श्री वर्द्धमान जिनदेशना ॥२०२ ॥
*********
अथैष दुष्टस्तीर्थरूपां मे मातरमपि मारयिष्यतीति चिन्तयन् यावदसौ स्थितस्तावत्स देवस्तस्य मातरमपि तत्रानीय हंतुमुद्यतोऽभवत् तद् दृष्ट्वा चुलनीपिता तस्य निग्रहार्थं तत्पृष्टे धावितः, तत्क्षणमेव स देवोऽपि विद्युद्वदाकाशे समुत्पतितः तदा म चुलनीपिता कोलाहलं कर्त्तुं लग्नः, तत् श्रुत्वा तन्माता भद्रा तत्रागत्य तमवदत् 'हे पुत्र ! त्वं कोलाहलं कथं करोषि ?'
तदा तेन सर्वोऽपि रजनीवृत्तान्तस्तस्या अग्रे निरूपितः तच्छ्रुत्वा तयोक्तं हे पुत्र ! केनापि देवेन दानवेन वा तवायमुपसर्गः कृतोऽस्ति, तव चत्वारोऽपि पुत्रा गृहमध्ये सुखसुप्ताः संति, अतस्त्वमेतत्सर्वे सुरकृतोपसर्गमेव जानिहि ? अतो भग्नव्रतस्त्वं गुरुसमीपे गत्वालोचनां कुरु ?' ततोऽसौ जननीवचनं तथेति मत्वा गुरुपार्श्वे समालोच्य प्रतिक्रम्य च तपोविषये सावधानोऽभूत्.
एवमानंदवदेकादश प्रतिमाः समाराध्य संलेषणां च कृत्वा, सर्वजीवांश्च क्षामयित्वा शुभध्यानं ध्यायन् अनशनं विधाय मृत्वा सौधर्मदेवलोकेऽरुणप्रभविमाने चतुः पल्योपमायुः स देवो जातः तच्छ्रुत्वा श्रीगौतमस्वामी श्रीवर्द्धमानस्वामिनं पृच्छति हे भगवन् ! स चुनी। पता ततश्च्युत्वा क्व यास्यति ?' प्रभुणोक्तं 'भो गौतम ! स ततश्च्युत्वा महाविदेहे सेत्स्यति, ' इति चुलनीपितुश्चरित्रं श्रुत्वा जंबूस्वामी संवेगं प्राप्य सुधर्मस्वामिनं वंदते नमस्करोति च.
इति श्रीवर्द्धमानदेशनायां वाचनाचार्यश्रीरत्नलाभगणिशिष्येण श्रीराजकीर्त्तिगणिना गद्यबंधेन प्रणीतायां चुलनीपिताश्रावकप्रतिबोधो नाम तृतीय उल्लासः समाप्तः ॥ श्रीरस्तु ॥
**********
चुलनीपिता चरित्रम् ॥
श्रावक
॥२०२॥