________________
श्रोवर्द्धमान जिनदेशना| ॥२०३॥
श्रीसुरादेव| चरित्रम् ॥
*
अथ चतुर्थोल्लासः
॥श्री सुरादेवश्राद्धचरितम् ॥ अथ श्रीसुधर्मस्वामी जंबूस्वामिपुरतः सुरादेवश्राद्धस्य चरित्रं कथयति. अस्मिन् जंबूद्वीपे भरतक्षेत्रे वाराणस्यभिधा नगरी वर्तते. तत्र कोष्टकाभिधयक्षस्यैक चैत्यं वर्तते, तस्यां नगर्यां जितशत्रुनामा राजा राज्यं करोति. तत्र चैकः सुरा देवाख्यः श्रेष्ठी वसति, सोऽतीवधनवानस्ति. तस्य व्यापारे भूमिनिधाने च षट्पट्कोट्यः स्वर्णस्य संति, षट्र च गोकुलानि तस्य गृहे वर्तते. धन्नेत्यभिधा तद्भार्यास्ति.
अथैकदा श्रीवर्द्धमानस्वामी तत्र कोष्टकचैत्ये समवसृतः, पर्षदो मिलिताः, प्रभोरागमनं श्रुत्वा स सुरादेवो गृहपतिरपि प्रभोर्वदनार्थ तत्र समायातः. प्रभुर्धर्मदेशनां ददाति, भो भो भव्या यूयं सर्वादरेण धर्म कुरुत ! यतो धर्मादेव जीवः संसारे सुखी भवति तस्मात्सुखार्थिभिर्धर्मविषये आलस्यं न कर्त्तव्यं. घनविघ्नसमुद्रे पतिता अपि प्राणिनो धर्मेणोद्धरिताः संतो घिष्टवत् सुखिनो भवंति. तच्छ्रुत्वा सुरादेवेन पृष्टं 'हे भगवन् कोऽसौ घिष्टः ? कथं च स विघ्नसमुद्रं ती| सुखस्थान प्राप्तः ? भगवानाह 'भो सुरादेव ! त्वं सावधानमना लोके महाश्चर्यकारकं तस्य चरित्रं शृणु ?
अस्मिन्नेव जंबूद्वीपे भरक्षेत्रेऽवंतीदेशे धारापुर्यभिधा नगरी वर्त्तते, तत्र मूराभिधो धनवान् राजपुत्रो वसति, तस्य चतुराभिधा च भार्या वर्तते, सातीवप्रचंडा कटुकभाषिणी नित्यं निजपति कटुवचनैः संतापयति. अथैकदा तेन मुरेण
२०३॥