________________
श्रीवर्द्धमान जिन देशना ॥२०४॥
श्रीसुरादेवचरित्रम् ॥
柴柴柴柴器器樂器器整整器器柴柴柴蒂蒂柴柴柴柴柴柴柴柴聯自
मनसि चिन्तितमनया भार्यया मे किं प्रयोजन ? यतः पुरुषेण दुष्टा भार्या विनकारिणी विद्या च त्याज्ये. इति ध्यात्वा स द्वितीयभार्याकरणाथै नित्यं नगरे ग्रामेषु च विलोकयति.
अथवंत्यां नगर्यामेका वृद्धा निजयौवनौपेतया पुत्र्या सह वसति, मूरस्तस्या अग्रे तत्पुत्रीं प्रार्थयामास. वृद्धयोक्तमेतां मे पुत्रीं तव दास्यामि, परमहमपि तव गृहे समेष्यामि, यतोन्यथा मम गति स्ति. मूरेणापि तत्पतिपन्नं ततोऽसौ तां परिणीय वृद्धया युतो निजगृहे समाययौ. अथ खिन्ना सा चतुरा निजसपत्नीभावेन तया सह कलहं करोति. तदा मूरेण सा नवपरिणीता सुंदरी पृथग्गृहे रक्षिता, तदा सा चतुरा तस्या गृहे गत्वा तस्यै दुष्टगालिमयच्छत्. एवं ते द्वे अपि नित्यं दंतादंति मुष्टामुष्टि नखानखिमभृति युद्धं कुरुतः. जनैर्निवारितापि सा दुष्टा चतुराधिकतरं कलहं करोति.
अथोद्विग्नेन सूरेण सा सुंदरी चतुरागृहतो दशक्रोशान् दूरे ग्रामांतरे तज्जननीयुता स्थापिता. ततश्चैकदा सूरेण चतुरायै कथितं, अद्याहं सुंदर्या गृहे गच्छामि, चतुरयोक्तं ' हे स्वामिन् ! तत्र गत्वा त्वया निजपियां भार्यां सुंदरी दानमानभोगादिभिः प्रीणयित्वा पुनस्त्वरितमत्रागंतव्यमित्युक्त्वा तया दुष्टया मंत्रितचूर्णमिश्रिता मोदकास्तस्मै मार्गे संबलार्थ दत्ताः. ___अथ हृष्टोऽसावपि संबलयुतस्ततश्चलितः, अंतरा च नदी समागता, तत्र मुखधावनस्नानकरणानंतरं तेन संबलं भक्षितं. तत्मभावात्तत्क्षणमेव स श्वा बभूव, पश्चाद्धावित्वा च गृहे समागतः, तदा सा दुष्टा चतुरा तं दृढबंधनैर्बध्ध्वा निबिडं ताडयंती कथयामास 'रे दुष्ट ! किमथ यास्यसि पुनरपि सुंदरीगृहे ?' ततस्तं मृतप्रायं ज्ञात्वा तं पुरूषरूपं विधाय सामुश्चत् , | ततस्तत्कृतविविधौषधोपचारैः स पटुशरीरो जातः. मासांते पुनरपि तेन चतुरांप्रत्युक्तमथाहं सुंदरीगृहे यामि ततः संबलं
自然;彭继器聯號號號跳號號號號號號號樂器樂靈藥藥聯號继柴柴登際第
| ॥२०४॥