________________
श्रीमुरादेव चरित्रम्॥
बीवर्द्धमान | कुरु ? ततस्तया दुष्टयापि तस्मै करंबः समर्पितः तं गृहीत्वा स ततश्चचाल, मार्गे च तस्या एव नधास्तीरे स भोक्तुमुपविष्टः, जिन देशना तावत्तत्र महाजटाधारी कोऽपि सन्यासी समागत्य तमुवाच, भो सत्पुरुष ! दिनद्वयादहं क्षुधितोऽस्मि ततो मे करंवं देहि ?' ॥२०५॥
तेनापि सर्वः करंवस्तस्मै दत्तस्तेन च भुक्तः, तत्क्षणमेव स सन्यासी रासभीभूय पूत्कारं कुर्वश्चतुरागृहे गतः, तत्पृष्टे | स सरोऽपि चलितः.
अथ सा दुष्टा तं गईभ बच्चा कशाप्रहारैस्ताडयामास. भयभ्रांतः स खरोऽपि दुःखेन पूत्कारं करोति । सापि किमथ यासि सुंदरीगृहे इति तं वारंवारं निर्भत्संयति. प्रांते तं मरणोन्मुख ज्ञात्वा सा पुरुषरूपं विधाय मोचयामास. इतस्तं जटाजूटमंडितं भस्मविलिप्तशरीरं सन्यासिनं दृष्ट्वा भयभ्रांता चतुरा तत्पादयोः पतित्वा तं क्षामयामास. सन्यासिनोक्तं 'मुग्धे एतदाभाणकं नूनं सत्यं जातं, यद्यः करंबमश्नाति स विडंबनामपि सहते.' ततः सा दुष्टा तं बहु द्रव्यं दत्वा विसर्जयामास.
ततस्तयाचिन्तितमथ मे चरित्रं मत्पतिना ज्ञातं, अतो भिन्नहृदययोरावयोरय स्नेहो न भविष्यति, तस्मादथोपायेनेनं मारयामीति विचिन्त्य सा स्नानं कृत्वा गोमयेन मंडलमकरोत् , ततः सा नैवेद्यं ढोकयित्वा श्वेतवस्त्राणि च परिवाय, घृतधूपागुरुगुग्गलरक्तकणवीरादिभिर्होममकरोत्. होमाते चैको राक्षसः सर्परूपेण प्रकटीभूय तमुवाच 'हे मुग्धे कुतोऽहं त्वया स्मृतः ? तुष्टोऽस्मि वरं वृणु ? तदा सा दुष्टात्मावदत् 'परस्त्रीलंपटं मम पति त्वं भक्ष्य ? 'म पड्मासां ते तव पतिमरिष्यति.' ततस्तं विसय॑ सा स्वस्थानके गता. कुडयांतरस्थितेन सूरेण तत्सर्व विलोकितं चिन्तितं च महिलानां हि चरित्रं गहनं वर्तते, अरेऽनयाहं बहु विडंबित' इति ध्यात्वा स सुंदरीसमीपे गत्वा तया सह नित्यं विषयसुखानि भुक्ते.
柴柴柴柴涂涂柴柴柴路器继樂樂路器勞柴柴柴柴柴张继器柴柴柴蒂器
染等!佛聯佛聯聯端帶路遊樂器晓晓晓器能帶帶樂帶柴柴聯際游
॥२०५॥