Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 258
________________ श्रीवर्द्धमान जिनदेशना ॥२५२॥ PER 982908808888888 महाशतक चरित्रम् ॥ जग्राह. विशुद्धक्रियायुतं घोरं तपः कुर्वनन्यदा विहरन् स क्षेमपुरनगरोद्याने नद्यास्तीरे कायोत्सर्गेण स्थितः. अथ तत्रैव नगरे एकोऽसंमताभिधो नरो वसति, स महानास्तिकवादी पितरं मातरं भ्रातरं गुरुं देवं जीवं पुण्यं पापं नरकं मुक्तिं चापि न मन्यते. वाचालत्वेन च देवगुरुधर्माद्युत्थाप्य हृदये गर्व वहति. इतो यत्र ललितांगमुनिः कायोत्सर्गे| ण स्थितोऽस्ति तत्र नद्यां महासलिलपुरं समागतं, तस्मिन्नगाधे जलपूरे तीरस्थाः सर्वे वृक्षादयो बुडिताः परं तपःप्रभावात्स एवंविधं तं मुनिवरं दृष्ट्वा सर्वेऽपि नगरलोका विस्मिताः संतः परस्परमेवमब्रुवन् , अहोऽयं मुनिर्यजलपूरे न बुडितः स नूनं तत्तपसः प्रभावो ज्ञेयः इति ध्यात्वा नगरलोकास्तं मुनि वंदन्ते पूजयंति च, रोगिणश्च तत्पादरजोलिप्तशरीरा नीरोगा भवंति एवं तस्य मुनेमहिमा नगरे विस्तृतः. अथेमं वृत्तांतं श्रुत्वा स नास्तिकशिरोमणिरसंमत ईयया तियामास यदेते सर्वेऽपि लोका असत्यमेव वदंति, इति ध्यात्वा स दुष्टात्मा रात्रौ नदीतीरे समागत्य कायोत्सर्गस्थस्य तस्य मुनेः पादौ शृंखलया बन्ध्वा परितश्च शुष्ककाष्ठानि संस्थाप्य तत्राग्निं ज्वालयामास. __ अथ तेनाग्निना निकटस्थवृक्षतृणादि ज्वलितं, परं तपःप्रभावान्मुनेस्तु रोममात्रमपि न ज्वलितं, तद् दृष्ट्वा चमत्कृतेनासंमतेन चिंतितं नूनमसौ मुनिरग्निनापि यन्न दग्धः स खलु तपस एव प्रभावः इति ध्यात्वा स मुनिसमीपे समागत्य क्षामयित्वा तत्पादश्रृंखलां निष्कासयामास. ततः पुनरसौ चिंतयति नूनं तपसैव विघ्नानि दरे यांति, लोके च यानि सुखानि संति तानि सर्वाण्यपि तपसैव प्राप्यंते, पूर्वभवे ये तपो न कुवैति ते ईह भवे दुःखिनो भवंति. इह भवे च ये तपः कुर्वति ते परभवेऽपि मुखिनो भवन्ति पुण्येन जीवः स्वर्गे याति तत्र च देवमुखं भुक्त्वा पुनरपिं मनुष्यभवं प्राप्य धर्म कृत्वा मुक्ति 彭伟华带带带带路带密柴柴柴柴器蒂蒂蒂號號柴柴晓晓晓染聯合第 8 8888888888898-984989 ॥२५२॥

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282