Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्री वर्धमान ॐ जिन देशना ॥२६९॥
तेतलिपुत्र चरित्रम्॥
強藤曼聯端端端端端器體貓器端器端幾帶藥藥藥器端器能帶帶遊音樂夢
श्वशुरेण चाउंबरपूर्वकं तस्य प्रवेशमहोत्सवः कृतः, तत्र च स्थितोऽसौ विविधसौख्यानि भुक्ते. अथैकदा रजन्यां भार्यया सह मुप्तः कुमारः प्रभाते स्वात्मानं कस्मिंश्चिन्महापर्वतशिखरे ददर्श. तदासौ विस्मितश्चितयति 'कुत्र तद् गृहं ? कुत्र सा मे प्रिया कमलमाला ? कुत्र चेदं गिरिशिखरं ?' इति ध्यात्वा स गाथार्थ विचारयामास, तदा स शुत्तड्दुःखं च न विवेद.
अथ तत्र निर्भयोऽसौ परिभ्रमन्नशोकपादपस्याध एकं कायोत्सर्गस्थितं मुनिं ददर्श. तदोत्पन्नविवेकोऽसौ तत्र गत्वा मुनि वंदित्वापृच्छत् 'हे भगवन् ! जीवानां सुखं कुतो भवेत् ? मुनिरपि तं योग्यं ज्ञात्वा धर्मलाभ दत्वा तस्य हितार्थमेवमब्रवात. जिनधर्म कुर्वन् जीवः सर्वसुखानि लभते, जिनधर्म विना जीवस्यार्थकामौ न भवतः, धर्मद्रुमस्य मूलं च सम्यक्त्वं कथ्यते. सम्यक्त्वं विनाराधितो धर्मों निष्फलः स्यात्. जीवो यद्देवगुरुधर्मरूपं तत्वत्रयं सम्यक् श्रद्दधाति तत्सम्यक्त्वं समाख्यातं. जितरागद्वेषोऽष्टादशदोषवर्जितो यथार्थकथकत्रैलोक्यपूजनीयः सर्वज्ञो देवो ज्ञेयः. पंचमहाव्रतैर्युक्ताः सामायिके संस्थिता निर्ग्रथा धर्मोपदेशतत्परास्त्यक्तकषायाश्च गुरवो ज्ञेयाः. यो दुर्गतिपतितानां जीवानां रक्षति धारयति च स धर्मों ज्ञेयः, स च संयमादिदशभेदैजिनर्भणितः इति श्रुत्वा कुमारः सम्यक्त्वं प्रत्यपद्यत. ततः पुनरपि किंचित्पृष्टुं यावत्स कुमार उद्यतो भवति, तावत् स तं मुनि न ददर्श. कुमारेण चिंततमहो मम धर्माचार्यः क्व गतः ? इति तस्योपकारं मनसि स्मरन् विस्मितोऽसौ यावत्तिष्ठति, तावदकस्मादागत्य समरविजयकुमारेग सेनया स वेष्टितः. सैन्यनायकेन निजसुभटान्प्रति कठोरभाषयोक्तं रे रे सुभटा एनं पापकारिणं कुमारं शीघं मारयत ? तत् श्रुत्वापि निर्भयः कुमारो गाथार्थ मनसि स्मरन् बलात्कस्यचित्सुभटस्य शस्त्रं गृहीत्वा तैः सादै युद्धं चकार. एवं तेन केचित्सुभटा मारिताः, केचिच्च ततः
॥२६९॥

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282