Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 241
________________ श्रीवर्द्धमान | जिनदेशना ॥२३५॥ कुंडकोलिक चरित्रम् ॥ 器端端端聯強器端端端器端器端器臻臻器器端端端端端端端端端端整合 मन्यमानोऽनित्यभावनां भावयामास. यथा-लक्ष्मीश्चपला वर्तते, मुखं च स्तोकं, शरीरं विनश्वरं, अवश्यमेव मर्त्तव्यं, पुनःपुनर्जन्मजरामरणानि, एवमरघटन्यायेन जीवानां क्लेशपरंपरा न निवर्त्तते. एवं विशुद्धभावनाभावितचित्तस्य तस्य क्रम ण शुक्लध्यानतः केवलज्ञानं समुत्पन्नं. ततोऽसौ कियत्कालं भव्यजीवान प्रतिबोध्य मुक्तिं ययौ. ॥ इति श्रीकुलध्वजकुमारकथा समाप्ता ॥ श्रीरस्तु ॥ एवं भो भव्याः कुलध्वजकुमारवनिर्मलशीलपालनात् शिघ्रमेव मुक्तिसुखं प्राप्यते. इति धर्मोपदेशं श्रुत्वा कुंडकोलिकेन द्वादशविधः श्रावकधर्मः प्रतिपन्नः, जीवाजीवादिनवतत्त्वानि विज्ञाय दृष्टोऽसौ श्रीवर्द्धमानजिनं वंदित्वा निजगृहे समाययौ एवं स तत्र मायादिशल्यरहितो भव्यरीत्या जिनधर्म पालयति. ____ अथैकदा सोऽशोकवाटिकायां मध्याहने शिलापट्टके निजनामांकितमुद्रिकामुत्तरासंगं च विमुच्य सामायिक प्रतिपद्य शुभध्यानं ध्यायति. तदा तत्र कोऽपि त्रिदशः प्रकटीभूय तन्मुद्रिकामुत्तरासंगं च गृहीत्वा गगनस्थस्तं प्रत्येवमवादीत भो श्राद्ध मंखलीपुत्रस्य धर्मः शोभनोऽस्ति, तत्रोत्थानकर्मवीय पुरुषाकाराश्च न संति. तत्रोत्थानं तपःसंयमादिषु १ कर्म च गमनक्रियादिषु २ वीर्य जीवशरीरबलं ३ पुरुषोकारो निजकार्यकरणपराक्रमो ज्ञेयः ४. एतैर्विना जीवानां सर्वकार्यसिद्धिर्भवति. अतो भो कुंडकोलिक अतःपरं त्वयैवं न वक्तव्यं यदुत्थानादिभिः कार्यसिद्धिर्भवतीति, यतःप्राप्तव्यो नियतिबलाश्रयेण योऽर्थः । सोऽवश्यं भवति नृणां शुभोऽशुभो वा ॥ भूतानां महति कृतेऽपि हि प्रयत्ने । नाऽभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥ 是聯柴柴柴柴柴柴晓晓端茶聯晓器蒸蒸發器端聯聯聯際聯柴柴柴影音 ॥२३५॥

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282