Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
श्रीवर्द्धमान
जिन देशना
श्रीसुरादेव चरित्रम् ॥
॥२१५॥
路音號密場樂器带密聯路路路继游游警器端密號聯聚樂器發器蹤器
प्रतिष्ठानपुरे हरिदत्ताख्य एको विप्रोऽवसत्, स शाकिनीनामाकर्षणाय यंत्रमंत्रतंत्रादिभिनित्य मंडलानि मंडयामास. तस्य पडभृत्याश्च तत्र गायनं कुर्वतस्तत्कार्ये तस्य सहायमयच्छन्. एवं स शाकिनीनां निग्रहमकरोत.
। अथैकदा ते सप्ताप्येकेन मुनिना धर्मोपदेशदानपूर्वकं जिनधर्म स्थापिताः, एवं जिनधर्म समाराध्य प्रांते च संलेखनां कृत्वा शुभभावेन मृत्वा स हरिदत्तजीवस्त्वं विष्टको जातः, ते तव भृताश्चैते मंडलाधिपा जाताः पूर्वभवे भवद्भिः शाकिन्यः कदर्थितास्तेनात्र भवे भवंतोऽपि शाकिनीसंकटे पतिताः तत् श्रुत्वा तस्य राज्ञस्तेषां मंडलाधिपानां च जातिस्मरणं समुत्पन्नं. प्रव्रज्यां गृहीत्वा च ते सर्वेऽपि स्वर्ग जग्मुः ततो भो भव्या यूयं जिनधर्म विशेषेणादरं कुरुत ? यत्मभावाद्वः स्वर्गापवर्गसुखानि सुलभानि स्युः, धर्मप्रभावाच्च प्राणिनां पदे पदे विपुलाः श्रियो भवंति, तस्मात् सर्वप्रकारेण धर्म एव कर्त्तव्यः. धर्मस्य मुलं च सम्यक्त्वं, तच्च श्रद्धारूपं वर्तते, सा श्रद्धा द्विधा, एका गुरूपदेशेन जीवादिनवतत्वविषया, द्वितीया च गुरुपदेश विनैव मरुदेवादिवत्. यतःसव्वाइं जिणवरभासियाई । वयणाई नान्नहा हुंति ॥ इय बुद्धि जस्स मणे । सम्मत्तं निच्चलं तस्स ॥१॥ अंतोमुहत्तमित्तपि । फासियं हुन जेहिं सम्मत्तं ॥ तेसिं अवदपुग्गल-परियहो होइ संसारो॥२॥
इति श्रीधिष्टकथासमाप्ता ॥ श्रीरस्तु । सर्वाणि जिनवरभाषितानि वचनानि नाऽन्यथा भवन्ति, इति बुद्धिर्यस्य मने सम्यत्क्वं निश्चलं तस्य॥ अमहत मात्रमपि स्पर्शितं भवति यैः सम्यक्त्वं, तेषां अपार्धपुद्गल परावर्तः भवति संसारः॥
继参考染染染染染整部帶柴柴柴柴樂器樂蒂蒂號器器誘器蒸蒸器桑號
॥२१५॥

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282