________________
जिन देशना
चुलनी
पिताश्रावक चरित्रम् ॥
श्रीवर्द्धमान | स कस्यचिद्वणिजो गृहे संप्राप्तः, तत्र च गुप्तं स्थितो जनकपुत्रयोः परस्परं वार्तालापं शृणोति. पुत्र प्रति श्रेष्ठी वदति
'हे पुत्र! सांप्रतं दशसहस्रदीनाराणि कुत्रापि निधानीकृत्य स्थाप्यंते, येन तानि कस्मिंश्चिदापत्काले सहायरूपाणि स्युः, ॥१८५॥
पुत्रेणोक्तं हे तात ! भवता तत्सुष्टु विचारितं, अथ तानि यदि स्मशानमध्ये स्थाप्यते तदा भव्यं.' तच्छ्रुत्वा स द्यूतकारस्ततो दूतं स्मशानमध्ये गत्वा महायोगीव श्वासोच्छ्वासं संरुध्य मृतकवत्पतितः.
इतस्तौ श्रेष्ठिपुत्रावपि धनं गृहीत्वा तत्र समागतो. श्रेष्टिना पुत्राय कथितं ' रे पुत्र ! त्वं स्मशानांतः सर्वत्र सम्यक् पश्य ? यतश्चेदत्र कोऽपि महाधूतॊ गुप्तं स्थितो भविष्यति तास्माकं मनोरथो मूलादेवोच्छिन्नो भविष्यनि.' तच्छृत्वा | स श्रेष्ठिपुत्रः स्मशानमध्ये सर्वत्र भ्रमन् सम्यक् प्रकारेण विलोकयामास. __इतस्तेन स सारणद्यूतकारो मृतकवृंदमध्ये मृतकवत् पतितोऽक्षतशरीरो दृष्टः, तदा श्रेष्टिपुत्रेण तस्य सर्व शरीरं | सम्यग् विलोकितं, मुखनासिकयोरपि श्वासोच्छ्वासरहितो दृष्टः, ततस्तं परावृत्त्यापि दृष्टवान्.
अथ तं गतप्राणं दृष्ट्वा स ततो निर्गत्य जनकाय कथयामास, 'हे तात! मया श्मशानमध्ये सर्वत्र विलोकित, सर्वेsप्यत्र विनष्टशरीरा मृतकाः पतिताः संति, तेषां मध्ये च मयैको मृतकोऽक्षतशरीरो दृष्टः, तदा पित्रोक्तं ' हे पुत्र! नूनं स कश्चिन्महाधृत्तॊ भविष्यति, अतः पुनरपि गत्वा तस्य सम्यग् निरूपणं कुरु ?' तदा तेन पुनरपि तत्र गत्वा सम्यग् निरूपितं, पादौ धृत्वा स आकर्षितः, परं तं निश्चेतनं विज्ञाय पितुः पार्थे समागत्य तत्स्वरूपमुक्तवान. तदा पुनरपि पित्रा तस्मै प्रोक्तं 'हे पुत्र ! तर्हि तस्य नासिकां कौँ च छेदयित्वा समानय ? यथा मम निश्चयो भवेत्.' पुत्रोऽपि तत्र गत्वा
*
發聯發藍帶柴柴柴柴柴聯盟聯號聯號聯露端端端端端端端端端端樂
繼器端端樂聯號藤器端蹤器端聽器聽幾號號號跳號號號聽聽聽器聽
॥१८५॥