________________
श्री वर्द्धमान जिन देशना ॥१८४॥
弗榮能继號藥號號號號號號樂器幾號號號號端端端端端端端柴柴聯
करणकुशलो महामायावी च वर्त्तते.
चुलनीषिता अथ तत्रैव नगरे रत्नसाराभिधो रत्नानां व्यापारी श्रेष्ठ्येकः परिवसति. अन्यदा स मायावी सहस्रमल्लस्तस्य हट्टे *श्रावक वणिग्वेषं विधाय समागत्य श्रेष्ठिनमपृच्छत् , 'भो श्रेष्ठिन् किं संति तव पार्चे रत्नानि ? श्रेष्ठिनोक्तं बहूनि संति. तेनोक्तं चरित्रम् तर्हि मे दर्शय ? श्रेष्ठिनापि तस्य दर्शितानि. ततः पुनरपि तेनोक्तं 'किमेतावत्येव रत्नानि संति ?' श्रेष्ठिनोक्तमन्यान्यपि बहूनि संति. इत्युक्त्वा लोभवशेन श्रेष्ठिना सर्वाण्यपि रत्नानि तस्य दर्शितानि मूल्यं च तेषां कथितं. सहस्रमल्लेनोक्तं ' हे | श्रेष्टिन् ! अहं सर्वाण्यपि तव रत्नानि गृह्णामि. परं तेषां मूल्यं कल्येऽपयिष्यामि.' तदा श्रेष्ठिनोक्त महमुद्धारके कस्मा अपि न यच्छामीत्युक्त्वा तेन रत्नानि यथास्थाने स्थापितानि.
अथ सहस्रमल्लस्तद्रत्नस्थानकं सम्यग्रीत्या दृग्गोचरीकृत्य स्वगृहे समागतः. क्षपायां च चौरवेषं विधाय स तस्यापणे गत्वा क्षात्रं दत्तवान. तत्र पात्रमुखे तेन प्रथमं स्वचरणौ क्षिप्तौ. इतस्तत्र सुप्ताः श्रेष्टिपुत्रा जागरिताः, तैश्च तस्य चरणौ * गृहीतो. तेषां परस्परमाकर्षणं कुर्वतां सहस्रमल्लस्य शरीरं भृशं घर्वित, रुधिरधारा च निर्गता, ततः श्रेष्ठिपुत्रैः स दयया मुक्तो नष्ट्वा स्वगृहे गतः, सर्व व्यतिकरं निजजनन्यै कथयामास. ततोऽसौ वेदनाक्रांतो गाढं पूत्कारं कर्तु लग्नः, तदा मात्रा भणितं ' हे पुत्र ! यः परद्रव्यं हरति तेन सर्वमपि सहनीयं भवेत् , यथा सारणतकारेण सोढं.' तेनोक्तं हे मातः !'को. ऽसौ सारणः ? कथं च तेन चौयं कुर्वता वेदना सोढा?' साऽवददवंत्यां सारणाभिध एको द्यूतकारो वसति, तेन सर्व द्रव्यं छूते हारितं. अर्थकदा रजन्यां चौर्यार्थ परिभ्रमन् ।
॥१८४
品號聯端端端柴柴柴號聯號聯蒂蒂蒂蒂蒂器跳跳跳跳號號號號樂器