________________
श्री वर्द्धमान जिन देशना ॥१८३॥
चुलनी |पिताश्रावक चरित्रम् ॥
部聯端端端柴柴晓晓樂器鉴器際柴柴柴聯聯柴柴柴榮帶染带染略帶紫
तृतीय चुलनीपिताश्रावकचरित्रम् अथ श्रीसुधर्मस्वामी जंबूस्वाम्यग्रे श्रीवीरजिनोक्तं चुलनीपितुः श्रावकस्य चरित्रं कथयति-अस्मिन् भरतक्षेत्रे वाराणस्यभिधा नगरी वर्त्तते, तस्यां च जितशत्रुनामा राजा राज्यं करोति. तस्यामेव नगर्यां चुलनीपिताख्यो गृहपतिवसति. तस्य श्यामाभिधा च भार्यास्ति. तत्रैक कोष्टकाभिधयक्षस्य चैत्यमस्ति. तस्य श्रेष्ठिनोऽष्टौ कोट्यः स्वर्णस्य भूमौ क्षिप्ताः संति, अष्टौ कोटयो व्यापारे नियोजिताः संति, अष्टौ कोट्यश्च कलांतरे संति. तस्यगृहे अष्टौ गोकुलानि संति, अन्योअप लक्ष्मीविस्तार आनंदस्येव तस्य गृहे वर्तते. एवं स निजश्यामाभार्यया सह विविधानि मनुष्यसुखानि भुंक्ते.
अथान्यदा तत्र श्री वर्द्धमानजिनस्तस्मिन् कोष्टकचैत्ये समवसृतः, पर्षदो मिलिताः, तदा स चुलनीपितापि श्री जिनागमनं श्रुत्वा वंदनार्थ तत्रागतः प्रभुं त्रिःपदक्षिणीकृत्य वंदित्वा च स यथास्थानमुपविष्टः. जिनो धर्मदेशनामदात् , “ यथा भो भव्याः! स्वजनधनभवनयौवनप्रमदादेहादिकं सर्वमनित्यं ज्ञात्वा यूयं जिनधर्म कुरुत? स धर्मश्च द्विविधः साधुश्रावकधर्मभेदाभ्यां सम्यक् क्रियमाण इहलोकपरलोकसुखानि यच्छति. यः प्राणी जिनधर्मसुधया हृदयमध्ये नित्यं स्नानं करोति सोऽतिपापमलिनोऽपि सहस्रमल्लवत् शुद्धयति."
अथ श्रीगौतमस्वामी पृच्छति 'हे जिनवरेंद्र ! कोऽसौ सहस्रमल्लः ? कथं च पापपंकेन मलिनोऽपि शुद्धो जातः ? तच्छ्रुत्वा श्रीजिनवरेन्द्रोऽवादीत् वत्सदेशे कोशांब्यभिधा नगरी वर्तते, तस्यां नगर्यां सहस्रमल्लाभिधो वणिकपुत्रः परिवसति. स परवंचनतत्परो मृषावादी सप्तव्यसनरतः सकललोकानामहितकारको दुष्टात्मा चौर्यरतो नानादेशभाषानानावेष-
॥१८३।।