Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 313
________________ २११ अशरणभावनाया: स्वरूपम् सूत्र ७] स्वोपभाष्य-टीकालङ्कृतम् एवमित्यादिना दार्टान्तिकमर्थं समीकरोति । जन्म-योनेनि:सरणं गर्भाधानं वा, उभयं दुःखहेतुस्तत्राकुलः पिण्डकवद् योनिमुखेन पीडथमानः कृच्छ्रेण या निःसरति । उदरस्थोऽपि पिण्डितावयवत्वात् पुरीतन्मूत्रपुरीषाकुलितः - कतिचिन्मासान् दुःखेन गमयति । निलठितस्तु योनेजेरसा ग्रस्यत एव, प्रतिक्षणमवस्थान्तरापत्तेः । मरणमप्यावीचिकमवश्यंभाव्येव जन्मवतः । व्याधयो ज्वरा-ऽतीसार-कास-श्वास-कुष्ठप्रभृतयः। प्रियः-इष्टो जनस्तेन सह विप्रयोगः। तद्विपरीतोऽप्रियस्तेन च सं(प्र)योगः । ईप्सितमाप्तुमिष्टं तस्याऽलाभः । दौर्मनस्यं मानसमेव दुःखम् । अतः स्वमरणमल्पायुषत्वादुपक्रमसन्निधानोद वा सकलायुषः परिक्षयाद् वाऽवश्यतया प्राणिनां संसारे भवति । आदिग्रहणाद् वधवन्धपरिक्लेशशीतोष्णदंशमशकद्वन्द्वाभिभवः ॥ भा०–एवं ह्यस्य चिन्तयतो नित्यमशरणोऽस्मीति नित्याद्विग्नस्य सांसारिकेषु भावेष्वनभिष्वङ्गो भवति । अर्हच्छासनोक्त एव विधौ घटते, तद्धि परं शरणमित्यशरणानुप्रेक्षा ॥२॥ टी०-एवं जन्मनाऽऽदितः समुद्भूतेन दुःखेनालीढस्य जन्मवतः शरणं नास्तीत्यालोचयतः सर्वदाऽहमशरण इति नित्यमेव भीतस्य सांसारिकेषु भावेषु मनुजसुरसुखेषु हस्त्यश्वादिषु हिरण्यसुवर्णादिषु च नाभिष्वङ्गो-न प्रीतिर्भवतीति परमर्षिप्रणीतशासनाभिहिते एव विधौ ज्ञानचरणादिलक्षणे घटते-प्रवर्तते इति । जन्मजरामरणभयपरिष्वक्तस्य च यस्मात् तदेव परं-प्रकृष्टं शरणमित्यशरणानुप्रेक्षा ॥ संसारानुप्रेक्षानिरूपणाय प्रक्रमते भा०-अनादौ संसारे नरक-तिर्यग्योनि-मनुष्या-ऽमरभवग्रहणेषु चक्रवत परिवर्तमानस्य जन्तोः सर्व एव जन्तवः स्वजनाः परजना वा॥ टी०-अनादौ संसारे इत्यादि । अविद्यमान आदिर्यस्यासावनादिर्नाभूत् उत्पन्नो नाप्युत्पादितः केनचिदिति । संसरणम्-इतश्चेतश्च गमनं संसारस्तस्य चातुर्विध्यं नरकादिभेदेन । भवशन्दो जन्मवचनः । नरकादिजन्मनां ग्रहणानि-उपादानानि तेषु चक्रवत् तत्रैव परिभ्रमतो जन्मवतः सर्व एव प्राणिनः क्षिति-जल-दहन-पवन-वनस्पतिशरीराः द्वि-त्रि-चतुःपञ्चेन्द्रियलक्षणाः स्वजनकाः सन्तो यदा यौनेन सम्बन्धेन स्वाम्यादिसम्बन्धेन वा सम्बन्धमन्वभूवननुभवन्त्यनुभविष्यन्ति वा तदा स्वजनाः, स्वाम्यादयो वा यदा न सम्बद्धास्तदा परजनाः । एतदेव दर्शयति १ 'नाद्यसकला' इति च-पाठः। २ 'तद् विपरीतं' इति ग-पाठः । ३ 'स्वजनः परजनो वा ' इति घ. ट्री-पादः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472