Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 424
________________ तत्त्वार्थाधिगमसूत्रम् . । अध्यायः १० स्ववशस्यानमिसन्धे-श्च तस्य न च विग्रहा गतिर्भवति । भवति हि विग्रहगमनं, कर्मवशस्यार्थिनश्चेह ॥ ५ ॥-आर्या अपि चानुश्रेणिगति--र्जीवानां चैव पुद्गलानां च । स्वाभाविकीष्यते ये-न तेनं सा विग्रहा सिद्धा ॥ ६॥" सिद्धस्य गतिरयुक्ता, स्ववशत्वान्निःप्रयोजनत्वाच्च । नो सिद्धावयुक्ता, कर्मविमुक्तस्य निःपततः ॥७॥-" बन्धविमोक्षात् सङ्ग-त्यागात् पूर्वप्रयोगतो वाऽपि । ननु गच्छतोऽन्यवशता न च मुक्तोऽभीष्यते विवशः ॥ ८॥-" इत्येवं विप्रलापो--ऽस्पृष्टगतौ नान्तरास्ति यत्कालः। . सत्यां हि सोत्तराव-स्थायां स्यात् सिद्ध इतरो वा ॥ ९॥-" सोऽस्पृष्टया हि गत्या--ऽनन्तरमेव समये जगच्छिखरम् । अवगाहतेतरां तेन नास्ति ननु भो व्रजत्कालः ॥ १०॥-" सिध्यति गत्वा ह्यात्मा, सिद्धिक्षेत्रेऽपहाय देहमिह । नह्यन्तराऽस्ति सिद्धि-नासिद्धिश्चास्ति मुक्तस्य ॥११॥-" स्ववशस्यानभिसन्धेः, कृतकृत्यस्य च यथा स्वभावेन। तस्योपयोग इष्ट--स्तथा गतिः सा स्वभावेन ॥१२॥" अथ यस्याः पृथिव्या उपरि मुक्तानामवस्थानं सा किंस्वरूपेत्याह- . भा०-तन्वी मनोज्ञा सुरभिः, पुण्या परमभास्वरा । प्रारभारा नाम वसुधा, लोकमूर्ध्नि व्यवस्थिता ॥ १९ ॥-अनु० ही०-तन्वीत्यादि । मध्ये योजनाष्टकबहला प्रदेशपरिहाण्या चोपर्युपरि मक्षिकापत्रात तनुतरा पर्यन्तेऽतितन्वी मनोज्ञेत्यन्तरुचिरा सुरभिः-इष्टगन्धा पुण्यवद्भिः पृथिवीकायिकैनिर्वर्तिता पुण्या भृशं भासनशीला प्रारभारेति नाम तस्याः। सा च लोकमूर्धनि व्यवस्थिता ॥ १९॥ भा०-नृलोकतुल्यविष्कम्भा, सितच्छत्रनिभा शुभा। ___ ऊर्ध्व तस्याः क्षितेः सिद्धा, लोकान्ते समवस्थिताः ॥२०॥-अनु० टी०-नृलोकेत्यादि । नृलोकेऽर्धतृतीयद्वीपा मानुषोत्तरमहीधरपरिक्षिप्ता तत्तुल्यविकम्भा, पञ्चचत्वारिंशद्योजनलक्षविस्तरेत्यर्थः । उत्तानीकृतसितच्छन्त्रकाकृतिः शुभरूपाचात्मिका शुभा तस्याः क्षितरुपरि लोकान्तस्पृशां सिद्धानामवस्थानम् ॥२०॥ १ 'स्याधिन' इति ज-पाठः। २ 'येन सेम (?) सा विग्रहा.' इति ज-पाठः। ३ 'नो सिद्धता च क ति ग-पाठः। ४'भीष्यति' इति ज-पाठ। ५सुरभिगन्धा' इति ज-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472