Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 425
________________ स्वोपज्ञभाष्य-टीकालङ्कृतम् भा० - तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः । सम्यक्त्वसिद्धतावस्था, हेत्वभावाच्च निष्क्रियाः ॥ २१ ॥ - अनु० डी० - तादात्म्येत्यादि । स आत्मा स्वभावो येषां ते तदात्मानः तद्भावस्तादात्म्यं तस्मात् केवलज्ञानदर्शनस्वभावात् सदैव उपयुक्ताः क्षायिक सम्यक्त्वसिद्धतावस्थाः । हेत्वभावाच्च निष्क्रियाः क्रियापरिणामं प्रति न किञ्चित् तेषामस्ति निमित्तमिति ॥ २१ ॥ भा०- -ततोऽप्यूर्ध्वगतिस्तेषां कस्मान्नास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात् स हि हेतुर्गतेः परः ॥ २२ ॥ टी० - ततोऽप्यूर्ध्वमित्यादि । लोकान्तात् परतोऽपि गतिस्तेषां कस्मान्न भवतीति चेत् गतेर्हेतुर्धर्मास्तिकायः परः -- प्रधानमपेक्षाकारणं तदभावान्न परतो गतिः || २२ ॥ भा० – संसारविषयातीतं मुक्तानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं परमं परमर्षिभिः ॥ २३ ॥ सूत्र. ७.]. C डी० - संसारेत्यादि । संसारविषयमतीतं मुक्तानां सुखमव्ययत्वाद् विगतव्याबाधं परमं प्रकृष्टं परमर्षिभिः - तीर्थकरादिभिरभिहितम् ॥ २३ ॥ - स्यादेतदशरीरस्य, जन्तोर्नष्टाष्टकर्मणः । भा० कथं भवति मुक्तस्य, सुखमित्यत्र 'मे शृणु ॥ २४ ॥ टी० – स्यादेतदित्यादि । नष्टाष्टकर्मणो विगतयोगत्रयस्य कथमकरणस्य सुखसम्भव इत्यत्र मे शृणु ॥ २४ ॥ भा० - लोके चतुष्विहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाभावे, विपाके मोक्ष एव च ॥ २५ ॥ Jain Education International - डी० – लोके इत्यादि । प्रतीतिं दर्शयति । सुखे विषयः शब्दादिः तथा दुःखवेदनायावाभावे कर्मविपाके च सद्वेदनीयादिके । तथा सकलकर्मक्षयलक्षणे च मोक्षे ॥ २५ ॥ उदाहरणानि यथाक्रमं दर्शयति भा०- सुखो वह्निः सुखय - विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २६ ॥ टी० - सुखो वह्निरित्यादि । उदाहरणानि यथाक्रमं दर्शयति ॥ २६ ॥ भा०- पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ २७ ॥ दी० - पुण्यकर्मेत्यादि । तार्थावेतौ श्लोकौ ॥ २७ ॥ १' संशृणु' इति पाठः । २ ' गतार्थावेव ' इति ज-पाठः । ३२३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472