Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
स्वोपज्ञभाष्य-टीकालङ्कृतम्
इदमुच्चैर्नागरवा-चकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं, स्पष्टमुमास्वातिना शास्त्रम् ॥ ५ ॥ - - आर्या यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तत्रोक्तम् । सोऽव्याबाधं सौख्यं प्राप्स्यत्यचिरेण परमार्थम् ॥ ६ ॥ -- आर्या टी० - सम्प्रदायाविच्छेदेनायात मर्हद्वचनं सम्यगवधार्य शारीरैर्मानसैश्च दुःखैरात दुरागमैरैहिक सुखोपदेशप्रायैस्त्रयैः प्रभृतिभिः प्रमाणविघट्टनायामक्षमैविहतमतिम् - उपहतविज्ञानमवलोक्य लोकमुचैर्नागर वाचकेनेति स्वशाखासूचकं तत्त्वार्थाधिगमाख्यं शास्त्रं भव्य सत्त्वानुकम्पया विरचितं स्फुटार्थमुमास्वातिनेति । तदेतच्छास्त्रं जीवादितत्वाधिगमार्थ योऽवभोत्स्यते सूत्रतोऽर्थतचानुष्ठास्यति तत्रोक्तं सोऽव्याबाधसुखलक्षणमनन्तमनुपम परमार्थ मोक्षमचिरेण प्राप्स्यतीति ॥
सूत्र ७]
इति श्रीतत्त्वार्थाधिगमेऽर्हत्प्रवचन संग्रहे भाष्यानुसारिण्यां वृत्तौ मोक्षस्वरूपनिरूपको दशमोऽध्यायः ॥ १० ॥ ॥ तत्समाप्तौ च समाप्तेयं तत्त्वार्थटीका ॥
आसीद् दिन्नगेणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिर्भृशम् । बोढा शीलभरस्य सच्छ्रतनिधिर्मोक्षार्थिनामग्रणी
Jain Education International
र्जज्वालामलमुच्चकैर्निजतपस्तेजोभिरव्याहतम् ॥ १ ॥ - शार्दूल ० यत्र स्थितं प्रवचनं, पुस्तकनिरपेक्षमक्षतं विमलम् । शिष्यगण सम्प्रदेयं, जिनेन्द्रवक्त्राद् विनिष्क्रान्तम् ॥ २ ॥ - आर्या तस्याभूत् परवादिनिर्जयपंटुः सैंहीं दधच्छूरतां
नाम्ना व्यज्यत सिंहसूर इति च ज्ञाताखिलार्थागमः । शिष्यः शिष्टजनप्रियः प्रियहितव्याहारचेष्टाश्रयाद्
भव्यानां शरणं भवौघपतनक्लेशार्दितानां भुवि ॥ ३ ॥ - शार्दूल० निर्धूततमः संहति-रखण्डमण्डलशशाङ्कस च्छाया । अद्यापि यस्य कीर्ति -- भ्रमति दिगन्तानविश्रान्ता ॥ ४ ॥ - आर्या शिष्यस्तस्य बभूव रोजि ( ज १ ) कशिरोरत्नप्रभाजलकव्यासङ्गाच्छुरितस्फुरन्नखमणिप्रोद्भासिपादद्वयः ।
१ 'गणी' इति ज-पाठ २' पदः' इति ङ पाठः । ३ 'राजत' इति च-पाठः । पाठः । ५ सङ्गच्छुरित०' इति च - पाठः ।
For Private & Personal Use Only
४ 'जातक'
www.jainelibrary.org
Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472