________________
स्वोपज्ञभाष्य-टीकालङ्कृतम्
भा० - तादात्म्यादुपयुक्तास्ते, केवलज्ञानदर्शनैः ।
सम्यक्त्वसिद्धतावस्था, हेत्वभावाच्च निष्क्रियाः ॥ २१ ॥ - अनु० डी० - तादात्म्येत्यादि । स आत्मा स्वभावो येषां ते तदात्मानः तद्भावस्तादात्म्यं तस्मात् केवलज्ञानदर्शनस्वभावात् सदैव उपयुक्ताः क्षायिक सम्यक्त्वसिद्धतावस्थाः । हेत्वभावाच्च निष्क्रियाः क्रियापरिणामं प्रति न किञ्चित् तेषामस्ति निमित्तमिति ॥ २१ ॥ भा०- -ततोऽप्यूर्ध्वगतिस्तेषां कस्मान्नास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात् स हि हेतुर्गतेः परः ॥ २२ ॥
टी० - ततोऽप्यूर्ध्वमित्यादि । लोकान्तात् परतोऽपि गतिस्तेषां कस्मान्न भवतीति चेत् गतेर्हेतुर्धर्मास्तिकायः परः -- प्रधानमपेक्षाकारणं तदभावान्न परतो गतिः || २२ ॥ भा० – संसारविषयातीतं मुक्तानामव्ययं सुखम् ।
अव्याबाधमिति प्रोक्तं परमं परमर्षिभिः ॥ २३ ॥
सूत्र. ७.].
C
डी० - संसारेत्यादि । संसारविषयमतीतं मुक्तानां सुखमव्ययत्वाद् विगतव्याबाधं परमं प्रकृष्टं परमर्षिभिः - तीर्थकरादिभिरभिहितम् ॥ २३ ॥ - स्यादेतदशरीरस्य, जन्तोर्नष्टाष्टकर्मणः ।
भा०
कथं भवति मुक्तस्य, सुखमित्यत्र 'मे शृणु ॥ २४ ॥ टी० – स्यादेतदित्यादि । नष्टाष्टकर्मणो विगतयोगत्रयस्य कथमकरणस्य सुखसम्भव इत्यत्र मे शृणु ॥ २४ ॥
भा० - लोके चतुष्विहार्थेषु, सुखशब्दः प्रयुज्यते ।
विषये वेदनाभावे, विपाके मोक्ष एव च ॥ २५ ॥
Jain Education International
-
डी० – लोके इत्यादि । प्रतीतिं दर्शयति । सुखे विषयः शब्दादिः तथा दुःखवेदनायावाभावे कर्मविपाके च सद्वेदनीयादिके । तथा सकलकर्मक्षयलक्षणे च मोक्षे ॥ २५ ॥
उदाहरणानि यथाक्रमं दर्शयति
भा०- सुखो वह्निः सुखय - विषयेष्विह कथ्यते ।
दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २६ ॥ टी० - सुखो वह्निरित्यादि । उदाहरणानि यथाक्रमं दर्शयति ॥ २६ ॥ भा०- पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् ।
कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ २७ ॥ दी० - पुण्यकर्मेत्यादि । तार्थावेतौ श्लोकौ ॥ २७ ॥
१' संशृणु' इति पाठः । २ ' गतार्थावेव ' इति ज-पाठः ।
३२३
For Private & Personal Use Only
www.jainelibrary.org