SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ३२४ तत्त्वार्थाधिगमसूत्रम् , [अध्यायः १० . भा०-सुखप्रसुप्तवत् केचि-दिच्छन्ति परिनिर्वृतिम् । .. .तयुक्तं क्रियावत्वात्, सुखानुशयतस्तथा ॥ २८ ॥ - टी०-सुखप्रसुप्तेत्यादि । शोभनेन स्वात्मनः सुखनिद्रया सुप्तवदिच्छन्ति निति तदेतदयुक्तं योगवत्वात् क्रियावत्त्वात् तथा सुखानुशयाच्च । अनुशयः प्रकोपकर्षत्वम् ।। भा० -श्रम-लम-मद्-व्याधि-मदनेभ्यश्च सम्भवात् । मोहोत्पत्तेर्विपाकाच, दर्शननस्य कर्मणः ॥ २९॥ टी-श्रमेत्यादि । श्रमः-खेदः क्लमो-ग्लानिः मदो-मद्यपानादिजनितः न्याधिःज्वरादिः मदनः-कामसेवनं एभ्यश्च सुखापसुप्तत्वस्य सम्भवात् रत्यरतिभयशोकादिको मोहस्तस्माच सुप्तत्वसम्भवः । दर्शननं-दर्शनावरणकर्म तस्य विपाकात्-उदयात् सुखप्रसुप्तत्वमिति । न चैतानि कारणानि मुक्तानां सम्भवन्ति ॥ २९॥ . भा०-लोके तत्सदृशो ह्यर्थः, कृत्स्नेऽप्यन्यो न विद्यते। उपगीयेत तद् येन, तस्मान्निरुपमं सुखम् ॥३०॥ टी०-लोके इत्यादि । मोक्षसुखसदृशोऽर्थः सकलेऽपि लोके न कचिदस्ति ततोऽनुपमं तत् ॥ ... भा०-लिङ्गप्रसिद्धेः प्रामाण्या-दनुमानोपमानयोः। अत्यन्तं चाप्रसिद्धं तद्, यत् तेनानुपमं स्मृतम् ॥३१॥ टी-लिङ्गेत्यादि । नाप्युपमानं तत्र क्रमते सादृश्याभावात् । सादृश्याख्यं लिङ्गं नास्ति मोक्षसुखस्य । नाप्यनुमानस्य मुक्तिसुखं गोचरीभवति । यस्मात्तस्य प्रामाण्यं लिङ्गप्रसिद्ध कारणात् । पक्षधर्मान्वयव्यतिरेक्येव लिङ्गम् । न चास्ति तादृशो मोक्षसुखप्रतिपत्तावित्यतो नाप्यनुमेयम् ॥ ३१ ॥ भा०-प्रत्यक्षं तद्भगवता-महतां तश्चै भाषितम् । गृह्यतेऽस्तीत्यतः प्राज्ञै-ने छद्मस्थपरीक्षया ॥३२॥ इति टी-प्रत्यक्षमित्यादि । अर्हता-सर्वज्ञानामेव तत् प्रत्यक्ष प्रत्यक्षीकृत्य च तैर्यथावद् भाषितं-व्यपेतरागद्वेषमोहैः श्रद्धेयवाक्यैः सर्वज्ञैरेव तदाख्यातम् । अतः सर्वज्ञप्रणीतागमप्रामाण्यात् तदस्तीति गृह्यते । प्रज्ञाऽसामर्थ्यान छद्मस्थपरीक्षया आगमव्यतिरिक्तैश्च छमस्थप्रत्यक्षादिभिः परीक्ष्यमाणं न जातुचिदुपलभ्यत इति ॥ ३२॥ एवमनुपममव्याबाधं च शाश्वतं स्वाभाविक मुक्तिसुखमनुभवति क्षपितसकलकर्मजालः । १' उपनीयते ' इति ग-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy