________________
३२५
सूत्र ७]
- स्वोपनभाष्य-टीकालङ्कृतम् भा०-यस्त्विदानी सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमानः कालसंहननायुर्दोषादल्पशक्तिः कर्मणां चातिगुरुत्वादकृतार्थ एवोपरमति स सौधर्मादीनां सर्वार्थसिद्धान्तानां कल्पविमानविशेषाणामन्यतमस्मिन् देवतयोपपद्यते।
टी०-यः पुनरधुना दुःखबहुलं संसारमवेक्ष्य तन्निःसरणकृतप्रयत्नः सम्यग्दर्शनज्ञानचरणसम्पन्नो भिक्षुर्मोक्षाय घटमानो-मोक्षार्थकृतोत्साहो दुषमाकालदोषात् परिपेलवकीलिकासेवार्तसंहननदोषादनेकापायाल्पायुर्दोषाचाल्पशक्तिः-अतीव स्तोकवीर्यः कर्मणां च-मोहनीयादीनामतिगुरुत्वादिति तीव्रानुभावादकृतार्थ एव-अक्षपितकर्माष्टक एव उपरमति-कालं करोति स खलूपचितशुभराशिः सौधर्मादीनां द्वादशानां कल्पानां विमानानां च सर्वार्थसिद्धान्तानामन्यतमस्मिन् कल्पे विमाने वा देवत्वायोपपद्यतेदेवत्वेनोपपद्यत इत्यर्थः।
भा०-तत्र सुकृतकर्मफलमनुभूय स्थितिक्षयात्प्रच्युतो देशजातिकुलशीलविद्याविनयविभवविषयविस्तरविभूतियुक्तेषु मनुष्येषु प्रत्यायातिमवाप्य पुनः सम्यग्दर्शनादिविशुद्धबोधिमवाप्नोति । अनेन सुखपरम्परायुक्तेन कुशलाभ्यासानुबन्धक्रमेण परं विर्जनित्वा सिध्यतीति॥
टी.-तत्र-सौधर्मादिषु कल्पेषु विमानेषु वा सुकृतकर्म-पुण्यकर्म तस्य फलं-विपाकमनुभूयायुषः स्थितिक्षयात् प्रच्युतो मगधादावार्यदेशे क्षत्रियादौ मनुष्यजातौ इक्ष्वाकुकुलादिषु शीलवत्सु-सच्चेष्टेषु विद्या-मुक्त्यनुगुणं ज्ञानं विनयः-अभ्युत्थानादिः विभव:धन-धान्य-द्रविणसम्पत् विषयाः-शब्दादयः सर्वेषामेवैषां विस्तरः-प्राचुर्य विस्तर एव विभूतिस्तद्युक्तेषु प्रत्यायातिमवाप्य-जन्म समधिगम्य पुनः सम्यग्दर्शनादिविशुद्ध बोधिमवामोति । सम्यग्दर्शनमादिर्ययोनिचारित्रयोर्बोधिस्वरूपयोस्तं बोधिमवाप्नोति । ज्ञानचरणे बोधिशब्दवाच्ये समवाप्नोतीत्यर्थः । अनेन-उक्तलक्षणेन कुशलान्यासानुबन्धकमेण सुखपरम्परायुक्तेन परं-प्रकर्षतस्बिर्जनित्वा मनुष्यो देवः पुनर्मनुष्य इति एवं त्रीणि जन्मानि समवाप्य सम्यक्त्वज्ञानलाभादिहितसंवरस्तपसा क्षपितकर्मराशिः सिध्यति सिद्धिक्षेत्र इति । उक्तं च
"एवं संवरवर्मा, पिनह्य सम्यक्त्ववाहमधिरूढः। . ... सज्ज्ञानमहाचापो-ध्यानादितपःशितपृषकैः ॥१॥-आर्या १. विद्या सूक्त्यः ' इति च-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org