SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ___तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः १० संयमरणाजिरस्थः, क्लेशचमूः संविधूय भव्यात्मा । कर्मनृपरिपून हत्वा-ऽपवर्गराज्यश्रियं लभते ॥२॥-आर्या एवं कर्मोदयजै-भीवैः कर्मक्षयोपशमजैश्च । संसारमुवाचार्हन्, सिद्धिं कर्मक्षयादेव ॥३॥" . ज्ञानं सुमार्गदीप, सम्यक्त्वं तु तदविप्रणाशाय । चारित्रमास्रवत्वं, क्षपयति कर्माणि तु तपोनिः॥४॥" एतेन भवति सिद्धिः, सिद्धान्तचतुष्टयेन जिनवचने। न तु संवररहितस्य च, सा स्यान्न ज्ञानमात्रेण ॥५॥" इत्येकान्तसमेक-द्वीपं विविधं झपमेकपातालम् । अष्टग्राहं द्विरयं, चतुरावत चतु:कूलम् ॥६॥" त्रिमहावातं त्र्युदयं, षड्वेगं चतुरशीतिनियतोर्मिम् । संसारार्णवमात्मा, नावा चतुरङ्गयोत्तरति ॥७॥" सम्प्रति वाचको निजाचार्यान्वयं द्विप्रकारमप्यावेदयतेभा०-वाचकमुख्यस्य शिव-श्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दि-क्षमाश्रमणस्यैकादशाङ्गविदः ॥१॥-गीतिः वाचनया च महावा--चकक्षमणमुण्डपादशिष्यस्य। शिष्येण वाचकाचा--र्यमूलनाम्नः प्रथितकीर्तेः॥२॥ आर्या न्यग्रोधिकाप्रसूते-न विहरता पुरवरे कुसुमनाम्नि।। कौभीषणिना स्वातित-नयेन वात्सीसुतेनाध्यम् ॥३॥" टी०-तत्रायं प्रव्राजकान्वयः-शिवश्री म वाचकः पितामहः सङ्ग्रहकारस्य, तस्य शिष्यो घोषनन्दिक्षमणस्तस्यायं सङ्ग्रहकारः शिष्यः। सम्प्रति वाचनाचार्यान्वयो मुण्डपादों नाम महावाचकः क्षमणः सोऽस्य पितामहः सङ्ग्रहकारस्य । तस्य शिष्यो मूलनामा वाचकस्तस्यायं सङ्ग्रहकारः शिष्यः । सम्प्रत्यात्मीयजन्मान्वयस्थानमाचष्टे-न्यग्रोधिका नाम ग्रामस्तत्र जातेन पाटलिपुत्रे कुसुमपुरनानि विहरता । कौभीषणिनेति गोत्राद्वानम् , स्वातितनयेनेति पितुराख्यानम्, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानम् ॥ भा०-अर्हद्वचनं सम्यग्, गुरुक्रमेणागतं समवधार्य। दुःखात च दुरागम-विहतमतिलोकमवलोक्य ॥४॥-आर्या १ 'मवाप्या' इति ज-पाठः । २ 'वाचकाचार्यान्वयो,' :इति ग-पाठः। २ 'समुपधार्य ' इति ध-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy