Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 422
________________ ३२० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० भा०-तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छति । पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः ॥ ९॥-अनु० - टी-तदनन्तरेत्यादि । सकलकर्मक्षयसमनन्तरमालोकान्ताव स गच्छति । कथं मुक्तस्य गतिरित्यारेकायामिदमाह-पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदादूर्ध्वगौरवाच गतिरस्य भवति सिद्धा ॥९॥ पूर्वप्रयोगस्योदाहरणानि दर्शयतिभा०-कुलालचके दोलाया-मिषौ वापि यथेष्यते । पूर्वप्रयोगात् कर्मेह, तथा सिद्विगतिः स्मृता ॥१०॥-अनु० टी०-कुलालेत्यादि । पूर्वप्रयोगात् कर्म-क्रिया यथा कुलालचक्रादिषु तथा सिद्धगतिः स्मृता ॥१०॥ भा०-मृल्लेपसङ्गनिर्मोक्षाद् , यथा दृष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धिगतिः स्मृता ॥११॥-अनु० टी०-मृल्लेपेत्यादि । अलावुनोऽप्सून्मजनं दृष्टं मृल्लेपसङ्गनिर्मोक्षात् एवं कर्माष्टकसङ्गत्यागात् सिद्धगतिः सिद्धा ॥११॥ भा०- एरण्डयन्त्रपेडासु, बन्धच्छेदाद् यथा गतिः। कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥१२॥-अनु० दी-एरण्डेत्यादि । व्याघ्रपादबीजबन्धनच्छेदाद् यन्त्रबन्धनच्छेदादू पेडाबन्धनच्छेदाच्च गतिर्दृष्टा मिञ्जाकाष्टपेडापुटानामेवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः ॥ १२॥ भा०-ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः। अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥१३ ।।-अनु० टी-ऊर्श्वेत्यादि । ऊर्ध्वगमन एव गौरवं धर्मः-स्वभावो जीवानाम् पुद्गलास्त्वधो गमनधर्माण इति सर्वज्ञवचनम् ॥ १३ ॥ . भा०-यथाऽधस्तिर्यगूर्व च, लोष्टवाय्वग्निवीतयः । स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनाम् ॥१४॥-अनु० टी०--यथेत्यादि । यथाक्रममधोगमनादि । लोष्टानां वीतयो-गतयः स्वभावादेवजायन्ते तथोवंगतिरात्मनाम् ॥१४॥ 'चापि' इति घ-पाठः। २'स्मृताः' इति ज-पाठः। ३ 'ऊर्ध्वमित्यादि' इति ज-पाठः। ४ 'वीचयः' इति ग पाठः। ५'स्वभावगतिरात्मनः' इति ग-पाठः। ६ 'लोष्टत्ववीचयो' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472