Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
३१८
तत्वार्थाधिगमसूत्रम् . [ अध्यायः १० भा०-संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं नित्यं निरतिशयं निर्वाणसुखमेवामोतीति ॥ ७ ॥
टी-संसारसुखमतीत्यात्यन्तिकं साद्यपर्यवसानमैकान्तिकं एकान्तेनैव भवति, न कदाचिन भवतीत्यर्थः । निरुपममिति नास्ति इह किश्चित् तस्योपमानं तत्सदृशमिति । निरतिशयमिति' नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते, सर्वमुक्तानां तुल्यत्वात् । नित्यमिति ध्रुवं कूटस्थमविचालि निवोणसुखमवाप्नोतीति।
सत्कारार्हः सततं, निरुत्सुको निर्भयो विरुग् विगदः । निःप्रणयो निषो, निर्द्वन्द्वो नीरजा वितनुः ॥१॥–आर्या संसाराग्निं निर्वा-प्य दहन्तं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो, गतजाति-जरा-मरण-रोगः ॥२॥-" व्यावाधाभावाच स, सर्वज्ञत्वाच भवति परमसुखी । व्याबाधाभावो नु, स्वस्थस्य ज्ञस्य ननु सुसुखम् ॥३॥-, अनुपमममेयमव्यय-मन शिवमजरमरुजमभयदृषम् । एकान्तिकमात्यन्तिक-मव्याबाधं सुखं ह्येतत् ॥४॥ "त्रिष्वपि कालेषु सुखा-नि यानि तिर्यङ्-मनुष्य-देवानाम् । सर्वाणि तानि न समा-नि तस्य मात्रा सुखेनापि ॥५॥-, तानि हि रागोत्प्लोषा-ण्याबाधापूर्वकाणि च सुखानि ।। नास्ति रागमपवि-ध्य तत्र किञ्चित् सुखमपृक्तम् ॥६॥-, एवं क्षायिकसम्यक्-त्वं वीर्य-सिद्धत्व-दर्शन-ज्ञानैः ।
आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥७॥-, सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति, द्विबद्धं सुबद्धं भवतीति ॥ भा०--एवं तत्त्वपरिज्ञानाद, विरक्तस्यात्मनो भृशम् ।
निरास्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ ॥१॥-अनु० __टी०–एवमित्यादि । उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य-विषयसुखवितृष्णस्य भृशमात्मनः स्थगितास्रवद्वारत्वाद् विच्छिन्नायामभिनवकर्मसन्तती-कर्मसन्ताने ॥१॥
१'वाप्नोति' इति ग-पाठः । २ 'पुलाकादिस्वातिशयः' इत्यधिको ज-पाठः। ३ 'स्वस्य ज्ञस्यापि' इति ङपाठः। ४ 'कं निरुपम ' इति घ-पाठः । ५ 'मामि' इति ज-पाठः, च-पाठस्तु 'नाभि'। ..... .....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472