SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३१८ तत्वार्थाधिगमसूत्रम् . [ अध्यायः १० भा०-संसारसुखमतीत्यात्यन्तिकमैकान्तिकं निरुपमं नित्यं निरतिशयं निर्वाणसुखमेवामोतीति ॥ ७ ॥ टी-संसारसुखमतीत्यात्यन्तिकं साद्यपर्यवसानमैकान्तिकं एकान्तेनैव भवति, न कदाचिन भवतीत्यर्थः । निरुपममिति नास्ति इह किश्चित् तस्योपमानं तत्सदृशमिति । निरतिशयमिति' नास्यातिशयः प्रकर्षापकर्षलक्षणो विद्यते, सर्वमुक्तानां तुल्यत्वात् । नित्यमिति ध्रुवं कूटस्थमविचालि निवोणसुखमवाप्नोतीति। सत्कारार्हः सततं, निरुत्सुको निर्भयो विरुग् विगदः । निःप्रणयो निषो, निर्द्वन्द्वो नीरजा वितनुः ॥१॥–आर्या संसाराग्निं निर्वा-प्य दहन्तं परमसौख्यसलिलेन । निर्वाति स्वात्मस्थो, गतजाति-जरा-मरण-रोगः ॥२॥-" व्यावाधाभावाच स, सर्वज्ञत्वाच भवति परमसुखी । व्याबाधाभावो नु, स्वस्थस्य ज्ञस्य ननु सुसुखम् ॥३॥-, अनुपमममेयमव्यय-मन शिवमजरमरुजमभयदृषम् । एकान्तिकमात्यन्तिक-मव्याबाधं सुखं ह्येतत् ॥४॥ "त्रिष्वपि कालेषु सुखा-नि यानि तिर्यङ्-मनुष्य-देवानाम् । सर्वाणि तानि न समा-नि तस्य मात्रा सुखेनापि ॥५॥-, तानि हि रागोत्प्लोषा-ण्याबाधापूर्वकाणि च सुखानि ।। नास्ति रागमपवि-ध्य तत्र किञ्चित् सुखमपृक्तम् ॥६॥-, एवं क्षायिकसम्यक्-त्वं वीर्य-सिद्धत्व-दर्शन-ज्ञानैः । आत्यन्तिकैः स युक्तो, निर्द्वन्द्वेनापि च सुखेन ॥७॥-, सम्प्रत्येनमेव शास्त्रार्थ श्लोकैरुपसंहरति, द्विबद्धं सुबद्धं भवतीति ॥ भा०--एवं तत्त्वपरिज्ञानाद, विरक्तस्यात्मनो भृशम् । निरास्रवत्वाच्छिन्नायां, नवायां कर्मसन्ततौ ॥१॥-अनु० __टी०–एवमित्यादि । उक्तनीत्या यानि जीवादीनि तत्त्वानि तत्परिज्ञानाद् विरक्तस्य-विषयसुखवितृष्णस्य भृशमात्मनः स्थगितास्रवद्वारत्वाद् विच्छिन्नायामभिनवकर्मसन्तती-कर्मसन्ताने ॥१॥ १'वाप्नोति' इति ग-पाठः । २ 'पुलाकादिस्वातिशयः' इत्यधिको ज-पाठः। ३ 'स्वस्य ज्ञस्यापि' इति ङपाठः। ४ 'कं निरुपम ' इति घ-पाठः । ५ 'मामि' इति ज-पाठः, च-पाठस्तु 'नाभि'। ..... ..... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy