SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ सूत्र ७j स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-पूर्वार्जितं क्षपयतो, यथोक्तैः क्षयहेतुभिः। संसारबीजं कात्स्न्ये न, मोहनीयं प्रहीयते ॥२॥-अनु० टी०-पूर्वेत्यादि । प्राक्तनं कर्म क्षपयतस्तपोऽनुष्ठानादिभिः क्षयितृभिः संसारतरो/जं समस्तमेव मोहनीय प्रहीयते क्षपकश्रेण्याम् ॥ २॥ भा०-ततोऽन्तरायज्ञानघ्न-दर्शनम्नान्यनन्तरम् । प्रहीयन्तेऽश्य युगपत् , त्रीणि कर्माण्यशेषतः ॥३॥-अनु०. टी.-तत इत्यादि । अन्तराये ज्ञानदर्शनावरणयोश्च क्षीणयोर्युगपत् अशेषतः॥३॥ भा०-गर्भसूच्यां विनष्टायां, यथा तालो विनश्यति । तथा कर्म क्षयं याति, मोहनीये क्षयं गते ॥४॥-अनु० टी०-गर्भसूच्यामित्यादि। मस्तकसूच्यां ध्वस्तायां सर्वात्मना विनाशमुपैति सकलस्तालतरुः, एवं मोहनीये क्षीणे शेषं कर्म क्षयमेति सर्वम् ॥ ४॥ भा०- ततः क्षीणचतुःकर्मा, प्राप्तोऽथाख्यातसंयमम् । बीजबन्धननिर्मुक्तः, स्नातकः परमेश्वरः ॥ ५॥ अनु० टी०-तत इत्यादि । क्षिप्तसकलघातिकर्मा यथाख्यातसंयममनुप्राप्तो बीजबन्धनेन-मोहनीयादिना विमुक्तः स्नातकोऽन्तर्मलापगमात् परमेश्वर:-केवलार्द्धप्राप्तः ॥५॥ भा०-शेषकर्मफलापेक्षः, शुद्धो बुद्धो निरामयः। . सर्वज्ञः सर्वदर्शी च, जिनो भवति केवली ॥ ६ ॥-अनु० टी-शेष इत्यादि । वेदनीयादिकर्मफलापेक्षः शुद्धो मोहादिमलापगमात् बुद्धः केवलज्ञानावाप्नेनिरामयो-निर्गताशेषरोगनिदानः केवली भवति ॥६॥ भा०-कृत्स्नकर्मक्षयादूर्व, निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्नि-निरुपादानसन्ततिः ॥ ७॥-अनु० । टी०--कृत्स्नेत्यादि । सकलकर्मकलङ्कनिर्मुक्त ऊर्ध्वमेव निर्वाणमधिगच्छति । निर्वृतस्य स्थानमप्युपचारानिर्वाणम् । अथवा निर्वाणं-निर्वृतत्वं सिद्धत्व प्रक्षिप्तप्रदाधेन्धनो वहिरिव निरुद्धकाष्ठाधुपादानसन्ततिः ॥७॥ भा०—दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः। . कर्मबीजे तथा दन्धे, नारोहति भवाङ्कुरः ॥ ८॥ अनु० . टी-दग्धे इत्यादि । बीजेऽत्यन्तं-भस्मसात्कृते नाङ्करस्य प्रादुर्भावः, एवं कर्मवीजे ध्वस्ते संसाराङ्करस्याप्रादुर्भावः ॥८॥ .. : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy