________________
३२० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० भा०-तदनन्तरमेवोर्ध्व-मालोकान्तात् स गच्छति ।
पूर्वप्रयोगासङ्गत्व-बन्धच्छेदोर्ध्वगौरवैः ॥ ९॥-अनु० - टी-तदनन्तरेत्यादि । सकलकर्मक्षयसमनन्तरमालोकान्ताव स गच्छति । कथं मुक्तस्य गतिरित्यारेकायामिदमाह-पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदादूर्ध्वगौरवाच गतिरस्य भवति सिद्धा ॥९॥
पूर्वप्रयोगस्योदाहरणानि दर्शयतिभा०-कुलालचके दोलाया-मिषौ वापि यथेष्यते ।
पूर्वप्रयोगात् कर्मेह, तथा सिद्विगतिः स्मृता ॥१०॥-अनु० टी०-कुलालेत्यादि । पूर्वप्रयोगात् कर्म-क्रिया यथा कुलालचक्रादिषु तथा सिद्धगतिः स्मृता ॥१०॥ भा०-मृल्लेपसङ्गनिर्मोक्षाद् , यथा दृष्टाऽप्स्वलाबुनः ।
कर्मसङ्गविनिर्मोक्षात्, तथा सिद्धिगतिः स्मृता ॥११॥-अनु० टी०-मृल्लेपेत्यादि । अलावुनोऽप्सून्मजनं दृष्टं मृल्लेपसङ्गनिर्मोक्षात् एवं कर्माष्टकसङ्गत्यागात् सिद्धगतिः सिद्धा ॥११॥ भा०- एरण्डयन्त्रपेडासु, बन्धच्छेदाद् यथा गतिः।
कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥१२॥-अनु० दी-एरण्डेत्यादि । व्याघ्रपादबीजबन्धनच्छेदाद् यन्त्रबन्धनच्छेदादू पेडाबन्धनच्छेदाच्च गतिर्दृष्टा मिञ्जाकाष्टपेडापुटानामेवं कर्मबन्धनविच्छेदात् सिद्धस्य गतिः ॥ १२॥ भा०-ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः।
अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥१३ ।।-अनु० टी-ऊर्श्वेत्यादि । ऊर्ध्वगमन एव गौरवं धर्मः-स्वभावो जीवानाम् पुद्गलास्त्वधो गमनधर्माण इति सर्वज्ञवचनम् ॥ १३ ॥ . भा०-यथाऽधस्तिर्यगूर्व च, लोष्टवाय्वग्निवीतयः ।
स्वभावतः प्रवर्तन्ते, तथोर्ध्वं गतिरात्मनाम् ॥१४॥-अनु० टी०--यथेत्यादि । यथाक्रममधोगमनादि । लोष्टानां वीतयो-गतयः स्वभावादेवजायन्ते तथोवंगतिरात्मनाम् ॥१४॥
'चापि' इति घ-पाठः। २'स्मृताः' इति ज-पाठः। ३ 'ऊर्ध्वमित्यादि' इति ज-पाठः। ४ 'वीचयः' इति ग पाठः। ५'स्वभावगतिरात्मनः' इति ग-पाठः। ६ 'लोष्टत्ववीचयो' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org