________________
सूत्र ७ ]
• स्वोपज्ञभाष्य टीकालङ्कृतम् भा०-अतस्तु गतिवैकृत्य-मेषां यदुपलभ्यते ।
कर्मणः प्रतिघाताच, प्रयोगाच तदिष्यते ॥१५॥ टी०-अतस्त्वित्यादि । अस्मादुक्तप्रकारादन्यथा गतिवैकृत्यं यद् भवति गतिविकाररूपं तत् कर्मणः-क्रियायाः प्रतिघाताद् गिरिभित्यादेः प्रयोगाच पुरुषेच्छानुविधानादिष्यते सर्वम् ॥१५॥ भा०-अधस्तियंगयोधं च, जीवानां कर्मजा गतिः।
ऊध्र्वमेव तु तद्धर्मा, भवति क्षीणकर्मणाम् ॥१६॥-अनु० टी०-अध इत्यादि। सर्वतो गतिर्जीवानामधस्तिर्यगूवं च कर्मजा गतिः। क्षीणकर्मणां तूर्ध्वमेव गतिस्तद्धर्मा सा स्वाभाविकी गतिधर्मो येषामिति ॥ १६ ॥ भा०-द्रव्यस्य कर्मणो यद-दुत्पत्त्याऽऽरम्भ-वीतयः ।
समं तथैव सिद्धस्य, गति-मोक्ष-भवक्षयाः ॥१७॥-अनु० . टी०-द्रव्यस्येत्यादि । द्रव्यस्य-परमाण्वादेः कर्मणः-क्रियाया यथोत्पत्तिरारम्भो गतिश्च सम-युगपत् तथा सिद्धस्य गतिमोक्षभवक्षयाः गतिः मुक्तिर्मोक्षः-स्वात्मन्यवस्थानं भवक्षयो-जन्मक्षयः संसारक्षयो वेति ॥ १७॥ मा०-उत्पत्तिश्च विनाशश्च, प्रकाश-तमसोरिह।
युगपद् भवतो यत्, तथा निर्वाण-कर्मणोः ॥१८॥ अनु० टी-उत्पत्तिश्चेत्यादि । प्रकाश-तमसोर्यथा युगपदुत्पत्ति-विनाशौ । यस्मिन् काले प्रकाश उत्पद्यते तस्मिन्नेव काले तमसो विनाश इति युगपद् एवं निर्वाणं कर्मक्षयश्चेत्येक एव कालः । तथाऽन्यत्राप्युक्तम्
सं ततो बन्धनमोक्षादूर्ध्व जीवः प्रवेगतो याति । न त्वैरण्डकबीजं, बन्धनमुक्तं व्रजत्यूर्ध्वम् ॥१॥-आर्या सङ्गत्यागाद् वा लघु-रात्मा भूत्वा स उत्पतत्यूर्ध्वम् । न तु गतलेपालाबू-रुदयाति जले निमग्नापि ॥२॥-, ध्यानेन तथा चात्मा, प्रयोजितो येन स व्रजत्यूर्ध्वम् ।। तिष्ठासुरपि न शक्तः, प्रवेगितो ननु नरः स्थातुम् ॥३॥" अपि चामेखि गमनं, स्वाभाविकमूर्ध्वमात्मनस्तस्य । .....
आत्मामिशिखाया गति-रन्या कर्मानिलवशाद्धि ।। ४ ॥" १'वीचयः' इति ग-पाठः। २'उत्पत्तिरित्यादि ' इति च-ज-पाठः।३ ‘स सततो' इति च-ज-पाठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org