________________
सूत्र ७]
स्त्रोपज्ञभाष्य-टीकालङ्कृतम् यत्किश्चित् पदवाक्यार्थादि गृहीतं तन्न कदाचिनश्यतीति, कोष्ठप्रक्षिप्तधान्यवत् । षीजबुद्धित्वं स्वल्पमपि दर्शितं वस्तु अनेकप्रकारेण गमयति । तद्यथा पदेन प्रदर्शितेन प्रकरणेनोद्देशकादिना सर्वमर्थ ग्रन्थं चानुधावति । परचित्तं जानाति । अभिलषितमर्थं प्राप्नोत्येवं अनिष्टं च नैवाप्नोति । एवमादयोऽतिशयाः शुभानुभावादपरिमितास्तस्य तस्यामवस्थायां प्रादुःष्यन्तीति॥
भा०-वाचिकं क्षीरावित्वं मध्वास्रवित्वं वादित्वं सर्वरुतज्ञत्वं सर्वसत्त्वावबोधनमित्येतदादि । तथा विद्याधरत्वमाशीविषत्वं भिन्नाभिन्नाक्षरचतुर्दशपूर्वधरत्वमिति ॥
टी०-वाचिकमप्यतिशेयवत्त्वम् । तस्य क्षीरास्रवित्वं शृण्वतस्तदीयवचनं क्षीरमिव स्वदते । एवं मध्वात्रवित्वम् । विद्वत्संसन्मध्येष्वपराजितत्वं वादित्वम् । सर्वेषां म्लेच्छमृग-पशु-पक्षिप्रभृतीनां रुतार्थज्ञत्वम् । सर्वान् सत्त्वानबुद्धिकानपि बोधयतीति सर्वसत्त्वावबोधनम् । आदिग्रहणादिक्षुरसास्रवित्वादिग्रहणम् । तथा विद्याधरत्वं महाविद्याः सर्वा एव तस्य तदा स्वयमेवोपतिष्ठन्ते । आशीविषत्वं कर्मजातिभेदादनेकप्रकारम् । भिन्नाक्षराणि किश्चिन्यूनाक्षराणि चतुर्दश पूर्वाणि सम्पूर्णानि वा तद्धारणत्वम् ॥
भा०-ततोऽस्य निस्तृष्णत्वातू तेष्वनभिष्वक्तस्य मोहक्षेपकपरिणामावस्थस्याष्टाविंशतिविधं मोहनीयं निरवशेषतःप्रहीयते। ततश्छद्मस्थवीतरागत्वं प्राप्तस्यान्तमुहूर्तेन ज्ञानावरण-दर्शनावरणा-ऽन्तरायाणि युगपदशेषतः प्रहीयन्ते । ततः संसारबन्धबीजबन्धननिर्मुक्तः फलबन्धनमोक्षापेक्षो यथाख्यातसंयतो जिनः केवली सर्वज्ञः सर्वदर्शी शुद्धो बुद्धः कृतकृत्यः स्नातको भवति । ततो वेदनीय-नामगोत्राऽऽयुष्यक्षयात् फलबन्धननिर्मुक्तो निर्दग्धपूर्वोपात्तेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगात् हेत्वभावाचोत्तरस्याप्रादुर्भावाच्छान्तः॥
टी०-ततोऽस्येत्यादि । तेषु-अतिशयेष्वनभिष्वक्तस्य-अनुपजातगाद्धर्थस्य मोहक्षपकपरिणामावस्थस्येति । अविरतसम्यग्दृष्टयादिस्थानवर्तिनो मोहक्षपणाभिमुखस्य श्रेण्या निरवशेषमोहक्षये सति ज्ञानावरणादिप्रहाणे च संसारबीजबन्धनं-मोहज्ञानावरणादि तेन निर्मुक्तः केवली भवति । ततश्च फलवन्धनं वेदनीयादिचतुष्कं तन्मोक्षणापेक्षस्तेनापि वेदनीयादिना अशेषफलबन्धनेन विमुक्तो ध्यानाग्निनिर्दग्धपूर्वोपात्तकर्मेन्धनो निरिन्धन इवाग्निः पूर्वोपात्तो भवः-औदारिकादिकायस्तद्रियोगादुत्तरस्य च कायस्य हेत्वभावात् संसारे पुनरप्रादुर्भावाच्छान्तः परमालादमुपगतः कारणापेक्षम्- १ शयत्वम् ' इति ज-पाठः। २'क्षय' इति ङ-पाठः। ३ 'बन्धनिर्मुक्तः' इति घ-पाठः । ४ 'हेतुभावात्' इति ङ-च-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org