Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
३१६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १० कर्मोपचयः। कर्मणां चानुभावतः सम्यग्दृष्टयादिगुणस्थानानां केवलिपर्यन्तानामसङ्ख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकर्मनिर्जरणात् सामायिकायुपलम्भात् पुलाकादिस्थानावाप्तेर्व्यपेतार्तध्यानरौद्रध्यानो धर्मध्यानविजेयाभ्यासादवाप्ताद्यशुक्लध्यानद्वयस्य नानाविधा लब्धय उत्पद्यन्ते । स्वहस्तपादावयवपरामर्शमात्रेणैव सर्वरोगापनयनसामर्थ्यमामीषधित्वम् । तदीयमूत्रपुरीषावयवसम्पर्काच्छरीरनैरुज्यं विद्युडौषधित्वम् । तथा सर्व एव तदीयावयवा दुःखार्तानामोषधीभवन्तीति सौषधित्वम् । अभिव्याहारसिद्धिर्वामात्रेणैव । शापदानसामर्थ्यमनुग्रहणसामर्थ्य च । ईशित्वं सर्वभूतेश्वरत्वम् । वशित्वं सर्वभूतानि स्ववशवर्तीनि । तथाऽवधिज्ञानमेकरूपं वैक्रियशरीरकरणं तदेव च दर्शयत्यणिमादिविशिष्टम् ॥
भा०-जङ्घाचारणत्वं येनाग्निशिखाधूमनीहारावश्यायमेषवारिधारामर्कटतन्तुज्योतिष्करश्मिवायूनामन्यतममप्युपादाय वियति गच्छेत् । वियद्गतिचारित्वं येन वियति भूमाविव गच्छेत् शकुनिवच प्रडीनावडीनगमनानि कुर्यात् ॥
टी-जङ्घाचारणत्वमग्निशिखाधूमाद्यपि निश्रित्य व्योनि गच्छेत्। मर्कटतन्तुः कोलिककोर्शकृततन्तुः । अपरं वियद्गतिचारणत्वं निर्निश्र एव विस्रब्धो भूमाविव व्योनि गच्छेत्। यथा च शकुनिर्वियति प्रडीनम्-उपरिष्टाद् गमनं अवडीनम्-अधस्ताद् गमनं करोत्येवमसावपि कुयोत्॥
भा०-अप्रतिघातित्वं पवतमध्येन वियतीव गच्छेत् । अन्तर्धानमदृश्यो भवेत् । कामरूपित्वं नानाश्रयानेकरूपधारणं युगपदपि कुर्यात् । तेजोनिसर्गे सामर्थ्यमेतदादि । इति इन्द्रियेषु मतिज्ञानविशुद्धिविशेषाद् दारात् स्पर्शना-55स्वादन-घ्राण-दर्शन-श्रवणानि विषयाणां कुर्यात् । सम्भिन्नज्ञानत्वं युगपदनेकविषयपरिज्ञानमित्येतदादि । मानसं कोष्ठबुद्धित्वं बीजबुद्धित्वं पदप्रकरणोद्देशाध्यायप्राभृतवस्तुपूर्वाङ्गानुसारित्वं ऋजुमतित्वं विपुलमतित्वं परचित्तज्ञानमभिलषितार्थप्राप्तिमनिष्टानवाप्तिमित्येतदादि ॥
टी-गच्छन् पर्वतमित्यादिभिरपि न प्रतिहन्यत इत्यप्रतिघातित्वम् । अन्तर्धानम्-अदृश्यत्वम् । युगपदनेकरूपधारणं कामरूपित्वम् । तेजोलेश्यामोक्षणम् आदिग्रहणात् शीतलेश्यानिसर्गशक्तिः। मतिज्ञानविशुद्धिप्रकर्षाद् विषयाणां-रूपादीनां देशप्रमाणनियमोल्लङ्घनेनापि ग्रहणं कुर्यात् । युगपदनेकविषयग्रहणं सम्भिन्नज्ञानत्वम् । आदिग्रहणादिन्द्रियव्यत्यासेनापि विषयग्रहणसामर्थ्यम् । मानसं-मनोव्यापारजातम् । कोष्ठबुद्धित्वं
१'कर्मोच्चयः' इति ग-पाठः । २ 'जयादभ्या' इति ग-पाठः। ३ 'निश्चित्य ' इति ग-पाठः । ४ ' कोशिकतन्तुः ' इति ग-पाठः ! ५ 'दूरात् ' इति ग-पाठः । ६ ‘सम्भिन्नत्वम् ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472