Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 401
________________ सूत्रं ५] स्वोपज्ञभाष्य-टीकालङ्कृतम् २९९ भूमिमित्याह-आ लोकान्तात् पञ्चास्तिकायसमुदायो लोकः तस्यान्तो-मस्तकः, तोषतप्राग्भारा नाम क्षोणी तुहिनसकलधवला उत्तानकच्छत्रकाकृतिः । तस्याश्चोपरि योजनमेकं लोकः, तस्याधस्तनकोशत्रयं हित्वा तुरीयक्रोशस्य उपरितनके षड्भागे त्रयस्त्रिंशदुत्तरधनुस्त्रिशतीसम्मिते धनुविभागाधिके लोकान्तशब्दो वर्तते । आङो मर्यादायां प्रयोगः आँ उदकान्तादिति यथा, एवमा लोकान्ताद् गच्छति, न ततः परमिति । तस्य च मुक्तात्मनो देहवियोगः सर्वात्मना तैजस-कार्मणयोः क्षयः। सिध्यमानगतिरिति ताच्छील्ये वाऽनङ्सेधनशील एवासौ नान्यशीलोऽवश्यमेव सिध्यति तस्य गतिरितो गमनं मुक्तस्य सतः लोकान्तप्राप्ति:-लोकान्तेऽवस्थानं एतस्त्रितयमप्येकेन समयेन परमनिरुद्धेन कालविशेषेण युगपद् भवति । गतिश्च समयान्तरं प्रदेशान्तरं वाऽस्पृशन्ती भवति । तस्य पर अचिन्त्यसामर्थ्याचैतत् सर्वं युगपद् भवति ।। देहवियोगादि केचिदाहुः कर्मक्षयकालश्च देहवियोगादिसमकाल एव भवतीति । भा०-तद्यथा-प्रयोगपरिणामादिसमुत्थस्य गतिकर्मण उत्पत्तिकारम्भविनाशा युगपदेकसमयेन भवन्ति तद्वत् ॥५॥ टी-तद्यथेत्यादिना दृष्टान्तयति-प्रसिद्धेन दृष्टान्तवस्तुना सिद्धस्य उत्पादादीनामेककालता साध्यते । प्रयोगो वीर्यान्तरायक्षयोपशमात् क्षयाद् वा चेष्टास्वरूपः परिणामः प्रयोगपरिणामः। आदिग्रहणात् स्वाभाविको वा। परमाण्वादीनां गतिपरिणामस्तत्समुत्थस्यतस्माज्जातस्य गतिकर्मणो-गतिक्रियाविशेषस्य कार्यद्वारेणोत्पत्तिकालः कार्यारम्भश्च कारणविनाशश्च पर्यायान्तरेण यणुकादिकायोरम्भः पूर्वपयोयेण विनाशस्तद्वत् सिद्धस्यापि कर्मक्षयदेहवियोगादयः समकाला एकसमयेन भवन्तीत्यर्थः । उत्पादेविगमस्थानवदिति सुज्ञानम् ॥५॥ __भा०-अत्राह-प्रहीणकर्मणो निरास्रवस्य कथं भवतीति । अत्रोच्यते टी०-अत्राहेत्यादि सूत्रं सम्बध्नाति । प्रहीणकर्मण इति क्षपितनिरवशेषकर्मराशेनिरास्रवस्य-निरस्तकायवाङ्मनोयोगस्य कथं-केन प्रकारेण गतिः-लोकान्तप्राप्तिर्भवति । एवं मन्यते-योगाभावात् स तदा निष्क्रियोऽगतिश्च (अ)क्रियातो लोकान्तगमनमनुपपन्नमिति प्रश्नयति । अत्रोच्यते--यथा गमनं समस्ति मुक्तात्मनस्तथोच्यते १ 'तद्देश' इति ङ-पाठः। २ 'कच्छपाकृतिः' इति ङ-पाठः । ३ 'अत्रोदकान्ता०' इति ङ-पाठः, 'अत्रेदं कान्ता' इति तु च-ज-पाठः ।४'विनाशस्थान' इति ग-पाठः। ५ 'लोकगमन' इति ङ-पाठः । मसाला Jain Education International www.jainelibrary.org | For Private & Personal Use Only

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472