Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 414
________________ ३१२ तत्त्वार्थाधिगमसूत्रम् . । अध्यायः १० लोकसिद्धाः, अधोलोकसिद्धाः सङ्ख्येयगुणाः, तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, सर्वस्तोकाः समुद्रसिद्धाः, बीपसिद्धाः संख्येयगुणाः। एवं तावद्व्यञ्जिते व्यञ्जितेऽपि सर्वस्तोकालवणसिद्धाः कालोदसिद्धाः सङ्ख्येयगुणाः, जम्बूद्वीपसिद्धाः सङ्ख्येयगुणाः, धातकीखण्डसिद्धाः सङ्ख्येयगुणाः, पुष्कराधसिद्धाः सङ्ख्येयगुणा इति॥ टी-संहरणं द्विविधमित्यादि गतार्थम् । समभूतलाद्भूभागा नव योजनशतान्यारुह्य तत उपयूज़लोकः, अधोलोकोऽपि नव योजनशतान्यवगाह्य परतोऽष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः । भाष्यशेषं पठितसिद्धम् । एवं क्षेत्रगतमल्पबहुत्वमभिधाय कालकृतमल्पबहुत्वं भण्यते भा०-काल इति त्रिविधो विभागो भवति-अवसर्पिणी उत्सर्पिणी अनवसर्पिण्युत्सर्पिणीति । अत्र सिद्धानां व्यञ्जिताव्यजितविशेषयुक्तोऽल्पबहुत्वानुगमः कर्तव्यः। पूर्वभागप्रज्ञापनीयस्य सर्वस्तोका उत्सर्पिणीसिद्धाः, अवसपिणीसिद्धा विशेषाधिकाः, अनवसर्पिण्युत्सर्पिणीसिद्धाः सङ्ख्येयगुणा इति । प्रत्युत्पन्नभावप्रज्ञापनीयस्याकाले सिध्यति । नास्त्यल्पबहुत्वम् । टी०-काल इति । त्रिविधो विभागो भवतीत्यादि सुज्ञानमेव भाष्यम् ॥ भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति। नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति । नास्त्यल्पबहुत्वम् । परम्परपश्चात्कृतिकस्याऽनन्तरा गतिश्चिन्त्यते । तद्यथा-सर्वस्तोकास्तियन्योन्यनन्तरगतिसिद्धाः, मनुष्येभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, नारकेभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, देवेभ्योऽनन्तरसिद्धाःसङ्ख्येयगुणा इति॥ टी-गतावल्पबहुत्वं चिन्त्यते-तिर्यग्योन्यनन्तरगतिसिद्धा इति । तिर्यग्योनेरुद्धृत्य मनुष्यगतौ सिद्धास्तथा मनुष्यगतेरेवोद्धृत्य मनुष्येषत्पद्यन्ते सिद्धाः । एवं शेषेष्वपि वाच्यम् ॥ भा०-लिङ्गम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः, स्त्रीलिङ्गसिद्धाः सङ्ख्येयगुणाः, पुंल्लिङ्गसिद्धाः सङ्ख्येयगुणा इति॥ टी०-लिङ्गमिति ख्यादिकम् । नपुंसकसिद्धाः स्तोकाः । स्त्रीसिद्धाः सङ्ख्येयगुणाः। पुंसिद्धाः सङ्ख्येयगुणा इति । १ 'न च अल्प' इति ग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472