________________
३१२ तत्त्वार्थाधिगमसूत्रम् .
। अध्यायः १० लोकसिद्धाः, अधोलोकसिद्धाः सङ्ख्येयगुणाः, तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, सर्वस्तोकाः समुद्रसिद्धाः, बीपसिद्धाः संख्येयगुणाः। एवं तावद्व्यञ्जिते व्यञ्जितेऽपि सर्वस्तोकालवणसिद्धाः कालोदसिद्धाः सङ्ख्येयगुणाः, जम्बूद्वीपसिद्धाः सङ्ख्येयगुणाः, धातकीखण्डसिद्धाः सङ्ख्येयगुणाः, पुष्कराधसिद्धाः सङ्ख्येयगुणा इति॥
टी-संहरणं द्विविधमित्यादि गतार्थम् । समभूतलाद्भूभागा नव योजनशतान्यारुह्य तत उपयूज़लोकः, अधोलोकोऽपि नव योजनशतान्यवगाह्य परतोऽष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः । भाष्यशेषं पठितसिद्धम् ।
एवं क्षेत्रगतमल्पबहुत्वमभिधाय कालकृतमल्पबहुत्वं भण्यते
भा०-काल इति त्रिविधो विभागो भवति-अवसर्पिणी उत्सर्पिणी अनवसर्पिण्युत्सर्पिणीति । अत्र सिद्धानां व्यञ्जिताव्यजितविशेषयुक्तोऽल्पबहुत्वानुगमः कर्तव्यः। पूर्वभागप्रज्ञापनीयस्य सर्वस्तोका उत्सर्पिणीसिद्धाः, अवसपिणीसिद्धा विशेषाधिकाः, अनवसर्पिण्युत्सर्पिणीसिद्धाः सङ्ख्येयगुणा इति । प्रत्युत्पन्नभावप्रज्ञापनीयस्याकाले सिध्यति । नास्त्यल्पबहुत्वम् ।
टी०-काल इति । त्रिविधो विभागो भवतीत्यादि सुज्ञानमेव भाष्यम् ॥
भा०-गतिः। प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति। नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति । नास्त्यल्पबहुत्वम् । परम्परपश्चात्कृतिकस्याऽनन्तरा गतिश्चिन्त्यते । तद्यथा-सर्वस्तोकास्तियन्योन्यनन्तरगतिसिद्धाः, मनुष्येभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, नारकेभ्योऽनन्तरगतिसिद्धाः सङ्ख्येयगुणाः, देवेभ्योऽनन्तरसिद्धाःसङ्ख्येयगुणा इति॥
टी-गतावल्पबहुत्वं चिन्त्यते-तिर्यग्योन्यनन्तरगतिसिद्धा इति । तिर्यग्योनेरुद्धृत्य मनुष्यगतौ सिद्धास्तथा मनुष्यगतेरेवोद्धृत्य मनुष्येषत्पद्यन्ते सिद्धाः । एवं शेषेष्वपि वाच्यम् ॥
भा०-लिङ्गम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः, स्त्रीलिङ्गसिद्धाः सङ्ख्येयगुणाः, पुंल्लिङ्गसिद्धाः सङ्ख्येयगुणा इति॥
टी०-लिङ्गमिति ख्यादिकम् । नपुंसकसिद्धाः स्तोकाः । स्त्रीसिद्धाः सङ्ख्येयगुणाः। पुंसिद्धाः सङ्ख्येयगुणा इति ।
१ 'न च अल्प' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org