SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३१३ सूत्रं ७ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०–तीर्थम् । सर्वस्तोकास्तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः सङ्ख्येयगुणा इति । तीर्थकरतीर्थसिद्धा नपुंसकाः सङ्ख्येयगुणाः । तीर्थकरतीर्थसिद्धाः स्त्रियः सङ्ख्येयगुणाः। तीर्थकरतीर्थसिद्धाः पुमांसः सङ्ख्येयगुणा इति॥ टी-तीर्थमित्यत्राल्पबहुत्वचिन्ता । तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धास्तीर्थकरसिद्धेभ्यः सङ्ख्येयगुणास्ते नपुंसकादयोऽपि सर्वे सङ्ख्येयगुणाः॥ ___ भा०-चारित्रम् । अत्रापि नयौ दौ-प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वभावमज्ञापनीयश्च । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोऽचारित्री सिध्यति । मास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यजिते च । अव्यञ्जिते सस्तोकाः पश्चचारित्रसिद्धाश्चतुश्चारित्रसिद्धाः सङ्ख्येगुणाः विचारित्रसिद्धाः सङ्खयेयगुणाः । व्यञ्जिते सर्वस्तोकाः सामायिक-छेदापस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धाः छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः सामायिक-छेदोपस्थाप्य-सूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः [सामायिक-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातसिद्धाः सङ्ख्येगुणाः] सामायिक-सूक्ष्मसम्पराय-यथाख्यात. चारित्रसिद्धाः सङ्खयेयगुणाः छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातचारिनसिद्धाः सङ्खयेयगुणाः॥ ___टी-चारित्रमित्यत्रापि तावेव द्वौ नयौ चतुश्चारित्रसिद्धेषु द्वौ विकल्पौ, त्रिचारित्रसिद्धेष्वपि द्वावेव । सर्वत्र सङ्ख्येयगुणत्वम् ।। भा०-प्रत्येकबुद्धबोधितः । सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः । बुद्धबोधितसिद्धा नपुंसकाः सङ्ख्येयगुणाः । बुद्धबोधितसिद्धाः स्त्रियः सङ्ख्येय. गुणाः । बुद्धबोधितसिद्धाः पुमांसः सङ्ख्येयगुणा इति ॥ टी-प्रत्येकबुद्धबोधित इत्यत्र सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः । सर्वत्र सङ्ख्येयगुणत्वम् ॥ भा०-ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सर्वः केवली सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका विज्ञानसिद्धाः, चतुर्ज्ञानसिद्धाः सङ्ख्येयगुणाः, त्रिज्ञानसिद्धाः सङ्ख्येयगुणाः । एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका मति-श्रुतज्ञानसिद्धाः, मतिश्रुता-ऽवधि-मनःपर्यायज्ञानसिद्धाः सङ्ख्येयगुणाः, मति-श्रुता-ऽवधिज्ञानसिद्धाः सङ्ख्येयगुणा इति॥ १'इति' इति पाठो नास्ति घ-पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy