SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १० टी०-ज्ञानमित्यत्रापि सर्वत्र सङ्ग्येयगुणत्वम् ॥ भा०-अवगाहना । सर्वस्तोका जघन्यावगाहनासिद्वाः । उत्कृष्टावगाहनासिद्धास्ततोऽसङ्ख्येयगुणाः । यवमध्यसिद्धा असङ्ख्येयगुणाः, यवमध्योपरिसिद्धा असङ्ख्येयगुणाः, यवमध्याधस्तात् सिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः॥ टी०- अवगाहनेत्यत्र उत्कृष्टावगाहनासिद्धा असङ्ख्ययगुणाः। द्वावसयेयगुणौ द्वौ विशेषाधिकाविति ॥ भा०-अन्तरम् । सर्वस्तोका अष्टसमयानन्तरसिद्धाः, सप्तसमयानन्तरसिद्धाः षट्रसमयानन्तरसिद्धा इत्येवं यावद् द्विसमयानन्तरसिद्धा इति सङ्ख्येयगुणाः। एवं तावदनन्तरेषु सान्तरेष्वपि सर्वस्तोकाः षण्मासान्तरसिद्धाः, एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः, यवमध्यान्तरसिद्धाः सङ्ख्येयगुणाः, अधस्ताद्यवमध्यान्तरसिद्धाः संङ्ख्येयगुणाः, उपरियवमध्यान्तरसिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः ।। टी०-अन्तरमित्यत्राष्टासु समयेषु नैरन्तर्येण सिद्धाः सर्वेऽपि सङ्ख्येयगुणाः । सान्तरेष्वपीत्यादि । एकसमयान्तरसिद्धाः सङ्ख्येयगुणा यवमध्यान्तरे च सङ्ख्येयगुणाः, अधस्तादयवमध्यान्तरे च सङ्ख्येयगुणाः॥ भा० - सङ्ख्या। सर्वस्तोका अष्टोत्तरशतसिद्धाः, विपरीतक्रमात् सप्तोत्तरशतसिद्धादयो यावत् पञ्चाशदित्यनन्तगुणाः । एकोनपश्चाशदादयो यावत् पञ्चविंशतिरित्यसङ्ख्येयगुणाः । चतुर्दिशत्यादयो यावदेक इति सङ्ख्येयगुणा: विपरीतहानिर्थथा-सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति॥ टी-सङ्ख्येत्यत्र अष्टोत्तरशतसिद्धाः सर्वस्तोकाः । विपरीतक्रमादिति सप्तोत्तरशतसिद्धा अनन्तगुणाः। एवं विपरीतहान्या यावत् पश्चाशदित्यनन्तगुणाः। विपरीतहानिर्यथेत्यादिना दर्शयति । सर्वस्तोका अनन्तगुणहानिसिद्धाः, असङ्ख्येयगुणहानिसिद्धा अनन्तगुणाः, सङ्ख्येयगुणहानिसिद्धाः सङ्ख्येयगुणा इति ।। . भा०–एवं निसर्गा-ऽधिगमयोरन्यतरज तत्त्वार्थश्रद्धानात्मकं शङ्काद्यतिचारवियुक्तं प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्याभिव्यक्तिलक्षणं विशुद्धं सम्यगदर्शनमवाप्य सम्यग्दर्शनोपलम्भाद् विशुद्धं च ज्ञानमधिगम्य निक्षेप-प्रमाण नयनिर्देश-सत्-सङ्ख्यादिभिरभ्युपायैर्जीवादीनां तत्त्वानां पारिणामिकौ-दयिको-पश १'असङ्ख्येय ' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy