________________
सूत्रं ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
मिकक्षायोपशमिक क्षायिकानां भावानां स्वतत्त्वं विदित्वा आदिमत्पारिणामिकौयिकानां च भावाना तुत्पत्तिस्थित्यन्यतानुग्रहप्रलयतत्त्वज्ञो उपसंहारः विरक्तो निस्तृष्णः त्रिगुतः पञ्चसमिनो दशलक्षण धर्मानुष्ठानात् फलदर्शनाच्च निर्वाणप्राप्तियतनयाऽभिवर्धितश्रद्धासंवेगो भावनाभि भावितात्माSनुप्रेक्षाभिः स्थिरीकृतात्मानभिष्वङ्गः संवृतत्वान्निरास्रवत्वाद् विरक्तत्वान्निस्तृष्णत्वाच्च व्यपगताभिनवकर्मोपचयः परीवहजयाद् बाह्याभ्यन्तरतपोऽनुष्ठानात् अनुभावतश्च सम्यग्दृष्टयविरतादीनां च जिनपर्यन्तानां परिणामाध्यवसायविशुद्धिस्थानान्तराणाम सङ्ख्येयगुणोत्कर्ष आस्था पूर्वोपचितकर्म निर्जरयन् सामायिकादीनां च सूक्ष्मसम्परायान्तानां संयमविशुद्धिस्थानानामुत्तरोत्तरोपलम्भात् पुलाकादीनां च निर्ग्रन्थानां संयमानु पालन विशुद्धिस्थानविशेषाणामुत्तरोत्तरप्रतिपत्या घटमानोऽत्यन्तप्रहीणार्तराद्र्ध्यानो धर्म व्यानविजयावाससमा - घिबलः शुक्लध्यानयोश्च पृथक्त्वैकत्ववितर्क पोरन्यतरस्मिन् वर्तमानो नानाविधावृद्धिविशेषान् प्राप्नोति । तद्यथा - आमशौषधित्वं विप्रुडोपधित्वं सर्वोषधित्वं शापानुग्रहसामर्थ्यजननीमभिव्याहारसिद्धिमीशित्वं वशित्वं अवधिज्ञानं शारीरविकरणाङ्गप्राशितामणिमानं लघिमानं महिमानं, अणुत्वम् + अणिमा बिसच्छिद्रमपि प्रविश्यासीत । लघुत्वं नाम लघिमा वायोरपि लघुतरः स्यात् । महत्त्वं महिमा मेरोरपि महत्तरं शरीरं विकुर्वीत । प्राप्तिर्भूमिष्ठोऽङ्गुल्यग्रेण मेरुशिखर भा स्करादीनपि स्पृशेत् । प्राकाम्यमत्सु भूमाविव गच्छेत्, भूमावाप्स्वव निमजेदुन्मज्जेच्च ॥
टी० - एवमित्यादिना मन्दबुद्धयनुग्रहार्थं सकलमेव तत्त्वार्थशास्त्रार्थं समासतः कथयति - विशुद्धं सम्यग्दर्शनमवाप्यैतस्य विशेषणानि निसर्गाधिगमादीनि । ज्ञानं च विशुद्धमधिगम्य सम्यग्दर्शनोपलम्भात् मिथ्यादर्शनभावितमज्ञानमेव नियमतो मिथ्यादृष्टेः सम्यक्त्वलाभे तु विशुद्धं ज्ञानम् । निक्षेपो नामादिः । प्रमाणे प्रत्यक्ष-परोक्षे । नया नैगमादयः । तथा निर्देश - स्वामित्वादिभिः सत्-सङ्ख्या - क्षेत्रादिभिव जीवादीनां च पारिणामिकादयो ये भांवास्तेषां स्वरूपं विदित्वा धर्माधर्मादीनां अनादीनामादिमतां च पारिणामिकादीनां घनशरीरादीनामुत्पत्तिस्थितिविनाशवतामनुग्रहः - उपकारस्तत्कृतः प्रलयः - उपघात इत्येवमवगम्य तत्त्वज्ञो विरक्तः सांसारिकेभ्यो भावेभ्यो विगततृष्णो गुप्त्याद्यनुष्ठानात् फलदर्शनाच्चेति निर्वाणमेव फलं तत्प्राप्तौ यत्नार्थमभिवधि श्रद्धासंवेगः पञ्चानां व्रतानां भावना ईर्ष्या समित्यादयस्ताभिर्भावितात्मा अनित्याद्यनुप्रेक्षाभिः स्थिरीकृतात्मा अनभिष्वङ्गो-ने कचिदाबद्धस्नेहः
संवृतत्वादिभिर्व्यपगताभिनव
१ ' निस्तृप्तः ' इति ग-पाठः । २ ' भाविनः' इति ङ- प्राठः । ३ ' प्रादुर्भावादाबद्ध ' इति ङ-ज- पाठः
Jain Education International
३१५
For Private & Personal Use Only
www.jainelibrary.org