Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 405
________________ • सूत्रं ६ ] स्वोपज्ञभाष्य–टीकालङ्कृतम् सम्यग्दर्शनादिसलिलक्लेदात् प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वगौरवादूर्ध्वमेव गच्छत्या लोकान्तात् ॥ स्यादेतत् । लोकान्तादूर्ध्वं मुक्तस्य गतिः किमर्थं न भवतीति । अत्रोच्यते टी० - एवमूर्ध्वगौरवेत्यादि । संसारोदधौ भवसलिले भवः - औदारिकादिकायनिर्वृत्तिः । भव एव सलिलं तत्र मग्नो भवासक्तः शरीरी अनियमेन अधस्तिर्यगूर्ध्वं च गच्छति । ततः सम्यग्दर्शनज्ञानावरणसलिलाद्रीकृत प्रहीणाष्टविधकर्ममृत्तिकालेपः ऊर्ध्वमेव गच्छति आ लोकान्तादिति । स्यादेतदित्यादिना इदमाशङ्कते - ऊर्ध्वं गच्छत्या लोकान्तादिति को नियमः १ स्वाभाविक्या गत्या लोकान्तादपि परेण गच्छतु गतेर्निवारकस्याभावादिति । अत्रोच्यते भा० - धर्मास्तिकायाभावात् । धर्मास्तिकायो हि जीवपुद्गलानां गत्युपग्रहेणोपकुरुते । स तत्र नास्ति । तस्माद् गत्युपग्रह कारणाभावात् परतो गतिर्न भवत्यप्सु अलाबुवत् । नाधो न तिर्यगित्युक्तम् । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठते मुक्तो निष्क्रिय इति ॥ ६ ॥ ३०३ टी० - धर्मास्तिकायाभावादिति । अस्त्येव निवारकं धर्मद्रव्यं तद्व्यपेक्षाकारणं स्वयमेव गतिपरिणतस्य जीवपुद्गलद्रव्यस्य धर्मद्रव्यमुपग्राहकं भवति मीनस्येव वारिद्रव्यम्, न त्वगच्छन्तं झषं बलाद् वारि नयति । एवं गतिपरिणतस्यात्मन: पुद्गलस्य वा स्वत एव गत्युपग्रहा कारी धर्मास्तिकायः कारणीभवति । स च लोकात् परतो नास्ति । तस्माद् गत्युपग्रहकारिणोऽभावात् परतो गतिर्नास्ति अप्सु यथाऽलाबुनः । अलाबु हि मृल्लेपापगमात् स्वयमेव गच्छज्जलमस्तकप्रविष्टं भवति, न परतो याति, उपग्राहकजलद्रव्याभावात् । ऊर्ध्वमेव च प्रयाति, नाधो न तिर्यगित्युक्तमेव । तत्रैवानुश्रेणिगतिर्लोकान्तेऽवतिष्ठत इति । यत्र देशे स्थितो मुच्यते समस्तैः कर्मभिस्तत्र या शरीरस्योपरि रुद्धा श्रेणिर्नभसस्तयैव गत्वा लोकान्तेऽवतिष्ठते मुक्तात्मा निष्क्रिय इति ॥ यथोक्तम् " धर्माभावाच्चालोके स प्रतिहन्यते न लोकाग्रे | [ न तु स्पर्शित्वात् ] गमनोपकृद्विधर्मो जीवानां पुद्गलानां च ॥ १ ॥ मुक्तोऽनन्तं कालं गच्छत्युपरीति वाऽप्यनुपपन्नम् । मुक्तस्य संसृतिर्हि न युक्ता भ्रमणं हि संसारः ॥ २॥ संसारिणस्तु विश्रमणमस्ति तस्य न महाननर्थः स्यात् । अपि चालोकोऽभीष्टः स च कृतकृत्यस्तथाऽऽत्मवशः ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472