Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
३०६
तत्वार्थाधिगमसूत्रम्
[ अध्यायः १०
पूर्व भावप्रज्ञापनीयस्य जन्मप्रतिपन्नजातः कर्मभूमिषु पञ्चसु भरतेषु पञ्चस्वैरावतेषु पञ्चसु विदेहेषु सिध्यति । संहरणं प्रति मानुषक्षेत्रे सिध्यति । संहरणं द्विधा स्वकृतं परकृतं च । तत्र स्वकृतं चारणानां विद्याधराणां चेच्छातो विशिष्टस्थानाश्रयणम् । परकृतं चारण- विद्याधर- देवैः प्रत्यनीकतयाऽनुकम्पया चोत्क्षिप्यान्यत्र क्षेपणं संहरणम् । तच्च न सर्वस्यैव साधोः संहरणं समस्तीत्येतद् विवेकेन दर्शयति -तत्र प्रमत्तसंयताः संयतासंयताश्च - देशविरताः संहियन्ते । केचिदाहुरविरतसम्यग्दृष्टिरपीति । अमी पुनर्न जातुचित् संहियन्ते
संहरणस्य द्वैविध्यम्
मतान्तरम्
भा०- - श्रमण्यपगतवेदः परिहार विशुद्धिसंयतः पुलाश्रमण्यादिसप्तानां कोऽप्रमत्तश्चतुर्दशपूर्वी आहारकशरीरीति' न संन्दियन्ते
टी० - श्रमणी संयतीत्यर्थः । अपगतवेदः परिहारविशुद्धिसंयत उक्तलक्षणः तथा पुलाकसंयतः अप्रमत्तसंयतः चतुर्दश पूर्वधरः आहारकशरीरीति । एते सप्तापि न संहियन्ते । आगमोsपि —
" " समणीमवगयवेदं परिहारपुलागमप्पमत्तं च । चोपुविं आहारगं च गवि को वि संहरइ ||
भा०- -ऋजु सूत्रनयः शब्दादयश्च त्रयः प्रत्युत्पन्नभावप्रज्ञापनीयाः शेषा नया उभयभावं प्रज्ञापयन्तीति ।
टी०- -ऋजुसूत्रनयः शब्दादयश्च त्रयः - शब्द- समभिरूढै-वम्भूताः प्रत्युत्पन्नभावप्रज्ञापनीयाः - वर्तमानार्थग्राहिणः । शेषा-नैगमादयो नया उभयभावं प्रज्ञापयन्त्यतीतं वर्तमानं चेति कालत्रयाभ्युपगमादिति ॥
भा० – कालः । अत्रापि नयद्वयम् । कस्मिन् काले सिध्यतीति ।। प्रत्युत्पन्नभावप्रज्ञापनीयस्य अकाले सिध्यति । पूर्वभावप्रज्ञापनीयस्य जन्मतः संहरणतश्च । जन्मतोऽवसर्पिण्युत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च जातः सिध्यति । एवं तावदविशेषतः । विशेषतोऽप्यवसर्पिण्यां सुषमदुःषमायां सङ्ख्येयेषु वर्षेषु शेषेषु जातः सिध्यति, दुःषमासुषमायां सर्वस्यां सिध्यति, दुःषमसुषमायां जातो दुःषमायां सिध्यति, न तु दुःषमायां जातः सिध्यति, अन्यत्र नैव सिध्यति । संहरणं प्रति सर्वकालेषु अवसर्पिण्यामुत्सर्पिण्यामनवसर्पिण्युत्सर्पिण्यां च सिध्यति ।।
१' इति ' इति न्यूनो ग-पाठः ।
२ छाया
श्रमणी मपगतवेदं परिहारं पुलाकमप्रमत्तं च । चतुर्दशपूर्विणमाहारकं च नापि कोऽपि संहरति ॥
३ प्रवचनसारोद्धारे १४१९ तमीगाथारूपेणोद्धृतेयम् ।
Jain Education International
ܐܕܕ
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472