Book Title: Tattvarthadhigamsutram Part 2
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 410
________________ ३०८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः १० भा०-तीर्थम् । सन्ति तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धास्तीर्थकरतीर्थे अतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकरीतीर्थे सिद्धा अपि॥ टी–तीर्थमिति। अत्र सन्ति-विद्यन्ते तीर्थकरसिद्धाः तीर्थकरनामकर्मानुभवपूर्वकाः सिद्धाः तीर्थकरसिद्धाः । ते च तीर्थकरतीर्थे तीर्थकरेण प्राक् प्रवर्तितं तीर्थ तस्मिन् सति पुनः स एव तीर्थस्य प्रवर्तयिता तीर्थकरः सिध्यति । नोतीर्थकरसिद्धाः प्रत्येकबुद्धाः । ते च तीर्थकरतीर्थे । अतीर्थकरसिद्धाः साधवः तीर्थकरतीर्थे । एवम्-उक्तेन प्रकारेण तीर्थकरीतीर्थसिद्धा अपि वाच्याः। तीर्थकरीतीर्थतस्तीर्थकरी सिध्यतीत्यादि । सिद्धप्राभृते अमी विकल्पाः-"अस्थि तित्थकरसिद्धा तित्थकरतित्थे नोतित्थसिद्धा तित्थकरतित्थे तित्थसिद्धा तित्थकरतित्थे तित्थसिद्धाओ तित्थकरीसिद्धा तित्थकरीतित्थे नोतित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धाओ" । अत्र तत्त्वविदः प्रवचनाभिज्ञाः॥ भा०–लिङ्गे पुनरन्यो विकल्प उच्यते-द्रव्यलिङ्ग भावलिङ्ग अलिङ्गमिति । प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिङ्गः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं प्रति स्वलिङ्गे सिध्यति । द्रव्यलिङ्गं त्रिविधं-स्वलिङ्गमन्यलिङ्ग गृहिलिङ्गमिति। तत् प्रति भाज्यम् । सर्वस्तु भावलिङ्गं प्राप्तः सिध्यति॥ टी-लिङ्गे पुनरन्यो विकल्प उच्यते ॥ ननु च पूर्वमेवोपन्यसनीयः स्यात् । सत्यमेव क्षम्यतामिदमेकमाचार्यस्य । त्रिप्रकारं लिङ्ग-द्रव्यलिङ्ग भावआचार्यस्य स्खलना लिङ्गमलिङ्गमिति, तीर्थोपाधिकत्वात् वृत्तौ त्रय एव विकल्पाः। तत्र प्रत्यु त्पन्नग्राहिणो नयस्य शुद्धस्य अलिङ्ग एव सिध्यति तदा तु द्रव्यलिङ्गं न सम्भवत्येव । द्रव्यलिङ्ग त्रिविधं रजोहरणमुखवस्त्रिकाचोलपट्टकादि स्वलिङ्गम् । अन्यलिङ्गं भौतपरिव्राजकादिवेषः । गृहिलिङ्गं दीर्घकेश-कच्छा-बन्धादि । तदेवंविधं द्रव्यलिङ्गं भाज्यम्कदाचित् सलिङ्गः कदाचिदलिङ्ग इति। भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि । तत्र किञ्चिदनुयायि किञ्चिन्निवर्तते, श्रुतं नास्ति सिद्धे क्षायिकसम्यक्त्वं तु विद्यते। चरणमपि सामायिकादि आवर्तत एव । पूर्वभावप्रज्ञापनीयस्थ भावलिङ्ग प्रति । श्रुतादिकं स्वलिङ्गं तत्रस्थः सिध्यति । सक्षेपतस्तु सर्वो भावलिङ्ग प्राप्तः सिध्यतीति नियमः॥ १ व्याख्याताः' इति ग-पाठः । २ छाया अस्ति तीर्थकरसिद्धास्तीर्थकरतीर्थे नोतीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरीसिद्धाः तीर्थकरीतीर्थे नोतीर्थसिद्धाः तीर्थकरीतीर्थे तीर्थसिद्धास्तीर्थकरीतीर्थे तीर्थसिद्धाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472