________________
३०८ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः १० भा०-तीर्थम् । सन्ति तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धास्तीर्थकरतीर्थे अतीर्थकरसिद्धाः तीर्थकरतीर्थे । एवं तीर्थकरीतीर्थे सिद्धा अपि॥
टी–तीर्थमिति। अत्र सन्ति-विद्यन्ते तीर्थकरसिद्धाः तीर्थकरनामकर्मानुभवपूर्वकाः सिद्धाः तीर्थकरसिद्धाः । ते च तीर्थकरतीर्थे तीर्थकरेण प्राक् प्रवर्तितं तीर्थ तस्मिन् सति पुनः स एव तीर्थस्य प्रवर्तयिता तीर्थकरः सिध्यति । नोतीर्थकरसिद्धाः प्रत्येकबुद्धाः । ते च तीर्थकरतीर्थे । अतीर्थकरसिद्धाः साधवः तीर्थकरतीर्थे । एवम्-उक्तेन प्रकारेण तीर्थकरीतीर्थसिद्धा अपि वाच्याः। तीर्थकरीतीर्थतस्तीर्थकरी सिध्यतीत्यादि । सिद्धप्राभृते अमी विकल्पाः-"अस्थि तित्थकरसिद्धा तित्थकरतित्थे नोतित्थसिद्धा तित्थकरतित्थे तित्थसिद्धा तित्थकरतित्थे तित्थसिद्धाओ तित्थकरीसिद्धा तित्थकरीतित्थे नोतित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धा तित्थकरीतित्थे तित्थसिद्धाओ" । अत्र तत्त्वविदः प्रवचनाभिज्ञाः॥
भा०–लिङ्गे पुनरन्यो विकल्प उच्यते-द्रव्यलिङ्ग भावलिङ्ग अलिङ्गमिति । प्रत्युत्पन्नभावप्रज्ञापनीयस्यालिङ्गः सिध्यति । पूर्वभावप्रज्ञापनीयस्य भावलिङ्गं प्रति स्वलिङ्गे सिध्यति । द्रव्यलिङ्गं त्रिविधं-स्वलिङ्गमन्यलिङ्ग गृहिलिङ्गमिति। तत् प्रति भाज्यम् । सर्वस्तु भावलिङ्गं प्राप्तः सिध्यति॥ टी-लिङ्गे पुनरन्यो विकल्प उच्यते ॥ ननु च पूर्वमेवोपन्यसनीयः स्यात् ।
सत्यमेव क्षम्यतामिदमेकमाचार्यस्य । त्रिप्रकारं लिङ्ग-द्रव्यलिङ्ग भावआचार्यस्य स्खलना
लिङ्गमलिङ्गमिति, तीर्थोपाधिकत्वात् वृत्तौ त्रय एव विकल्पाः। तत्र प्रत्यु
त्पन्नग्राहिणो नयस्य शुद्धस्य अलिङ्ग एव सिध्यति तदा तु द्रव्यलिङ्गं न सम्भवत्येव । द्रव्यलिङ्ग त्रिविधं रजोहरणमुखवस्त्रिकाचोलपट्टकादि स्वलिङ्गम् । अन्यलिङ्गं भौतपरिव्राजकादिवेषः । गृहिलिङ्गं दीर्घकेश-कच्छा-बन्धादि । तदेवंविधं द्रव्यलिङ्गं भाज्यम्कदाचित् सलिङ्गः कदाचिदलिङ्ग इति। भावलिङ्गं श्रुतज्ञानक्षायिकसम्यक्त्वचरणानि । तत्र किञ्चिदनुयायि किञ्चिन्निवर्तते, श्रुतं नास्ति सिद्धे क्षायिकसम्यक्त्वं तु विद्यते। चरणमपि सामायिकादि आवर्तत एव । पूर्वभावप्रज्ञापनीयस्थ भावलिङ्ग प्रति । श्रुतादिकं स्वलिङ्गं तत्रस्थः सिध्यति । सक्षेपतस्तु सर्वो भावलिङ्ग प्राप्तः सिध्यतीति नियमः॥
१ व्याख्याताः' इति ग-पाठः ।
२ छाया
अस्ति तीर्थकरसिद्धास्तीर्थकरतीर्थे नोतीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरतीर्थे तीर्थसिद्धास्तीर्थकरीसिद्धाः तीर्थकरीतीर्थे नोतीर्थसिद्धाः तीर्थकरीतीर्थे तीर्थसिद्धास्तीर्थकरीतीर्थे तीर्थसिद्धाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org