________________
३०९
सूत्रं ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् . भा०-चारित्रम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोअचारित्री 'सिध्यतीति ।
टी-चारित्रमिति। वर्तमानग्राहिणो नयस्य नोचारित्री नोअचारित्री सिध्यति। नोशब्दः सर्वप्रतिषेधे। नास्त्यस्य चारित्रं सामायिकादि नोअचारित्री द्वौ प्रतिषेधौ। तत्र चारित्र्येव गम्यते किं तार्ह अचारित्री अविरत इत्यपि वक्तुं न शक्यते । तस्मान्न विरतो नाविरत इति ॥
. भा०-पूर्वभावप्रज्ञापनीयो द्विविधः-अनन्तरपश्चात्कृतिकश्च परम्परपश्वात्कृतिकश्च । अनन्तरपश्चात्कृतिकस्य यथाख्यातसंयतः सिध्यति। परम्परपश्चास्कृतिकस्य व्यञ्जितेऽव्यञ्जिते च। अव्यञ्जिते त्रिचारित्रपश्चात्कृतः चतुश्चारित्रपश्चास्कृतः पश्चचारित्रपश्चात्कृतश्च । व्यञ्जिते सामायिक-सूक्ष्मसम्पराय-यथाख्यातपश्चास्कृतसिद्धाः छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः सामायिकच्छेदोपस्थाप्य-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः छेदोपस्थाप्य-परिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः सामायिक-च्छेदोपस्थाप्यपरिहारविशुद्धि-सूक्ष्मसम्पराय-यथाख्यातपश्चात्कृतसिद्धाः॥
टी-पूर्वभावप्रज्ञापनीयो द्विधा । अनन्तरस्य पश्चात्कृतिः-पश्चात्करणं यत्रासावनन्तरपश्चात्कृतिको नयः । अस्य तु यथाख्यातचारित्री सिध्यति । इतरस्य व्यञ्चिते-व्यक्तिमापादिते स्पष्टीकृते विशेषिते अव्यञ्जिते सामान्यमाने अविशेषिते वक्तव्यं तत्राव्यञ्जिते त्रिचतुःपञ्चचारित्रपश्चात्कृतः सिध्यति । कानि त्रीणि चारित्राणि चत्वारि पञ्च वा । अतो व्यज्यते-सामायिक, सूक्ष्मसम्परायं, यथाख्यातं च; अथवा छेदोपस्थाप्यं सूक्ष्मसम्परायं यथाख्यातमिति त्रिचारित्रस्य विकल्पद्वयम् । चतुश्चारित्रस्यापि विकल्पद्वयमेव सुज्ञानम् । पञ्चचारित्रस्यैक एव विकल्पः॥
भा०—प्रत्येकबुद्धयोधितः । अस्य व्याख्या-विकल्पश्चतुर्विधः । तद्यथा
र अस्ति स्वयम्बुद्धः। स द्विविध:-अहंश्च तीर्थकरः प्रत्येकबुद्धधितस्य व्याख्याया- सिद्धश्च । बुद्धबोधितसिद्धः त्रिचतुर्थो विकल्पः । परबोधकसिद्धाः श्चातुर्विध्यम् स्वेष्टकारिसिद्धाः॥
टी--प्रत्येकबुद्धबोधित इति चतुर्धा व्याख्यायते-तीर्थकरः प्रत्येकबुद्धः परबोधकः स्वेष्टकारी चेति । तद्यथेत्यादिना दर्शयति । अस्ति स्वयम्बुद्धसिद्धः, स्वयमेव बुद्धः,
१ 'सिध्यति' इति घ-पाठः । २ 'पूर्वभावप्रज्ञापनीयस्य नोचारित्री सिध्यतीति' इत्यधिको ग-पाठः । ३ 'अचरित' इति च-ज-पाठः। ४ 'साम्परायिक' इति घ-पाठः। ५ 'सिद्धाः' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org